वृद्धात् प्राचाम्

4-2-120 वृद्धात् प्राचाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ओर्दश इत्येव। उवर्णान्ताद् वृद्धात् प्राग्देशवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। आढकजम्बुकः। शाकजम्बुकः। नापितवास्तुकः। पूर्वेणैव ठञि सिद्धे नियमार्थं वचनम् — वृद्धादेव प्राचाम्, अवृद्धाद् न भवतीति। मल्लवास्तु — माल्लवास्तवः॥

Siddhanta Kaumudi

Up

प्राद्गेशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वृद्धात् प्राचाम्>> - वृद्धात्प्राचाम् ।ओर्देशे ठ॑ञित्यनुवर्तते । प्राचामिति देशविशेषणं, नतु विकल्पार्थं, व्याख्यानात् । पूर्वेण सिद्धे नियमार्थमिदम् । तदाह — प्राग्देशेत्यादिना । आढकजम्बुक इति । आढकजम्बूर्नाम कश्चिद्ग्रामः । तत्र भव इत्यर्थः । उगन्तात्परत्वाट्ठस्य कः । 'केऽणः' इति ह्रस्वः । एवे शाकजम्बुकः । मल्लवास्त्विति ।कश्चित् प्राच्यो ग्राम॑ इति शेषः ।

Padamanjari

Up

वृद्धादेव प्राचामिति । विपरीतस्तु नियमो न भवति - प्राचामेव वृद्धादिति, अप्राग्देशवाचिनो वृद्धस्योवर्णान्तस्याभावाद् यत्र पूर्वसूत्रस्यातिप्रसङ्गः स्यात् । आढकजम्बुक इति । पूर्ववत्कादेशह्रस्वत्वे ॥