4-2-119 ओः देशे ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
वृद्धादिति नानुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात्। उवर्णान्ताद् देशवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। नैषादकर्षुकः। शाबरजम्बुकः। देश इति किम्? पटोश्छाात्राः पाटवाः। ठञ्ञिठयोः प्रकरणे ठञः केवलस्यानुवृत्तिर्न लभ्यत इति ठञ्ग्रहणं कृतम्॥
उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । केऽणः <{SK834}> इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥
<<ओर्देशे ठञ्>> - ओर्देशे ठञ् । निषादकर्षूरिति । 'कश्चिद्ग्राम' इति शेषः । नैषादकर्षुक इति । उगन्तात्परत्वात्कादेशः ।
नैषादकर्षुकः, शाबरजम्बुक इति । निषादकर्षू-शबरजम्बूशब्दाभ्यां ठञ्, ठिसुसुक्तान्तात्कःऽ,'के' णःऽ इति ह्रस्वः ॥