वाहीकग्रामेभ्यश्च

4-2-117 वाहीकग्रामेभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् वृद्धात् ठञ्ञिठौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वृद्धादित्येव। वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ प्रत्ययौ भवतः शैषिकौ। छस्यापवादौ। शाकलिकी, शाकलिका। मान्थविकी, मान्थविका॥

Siddhanta Kaumudi

Up

वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वाहीकग्रामेभ्यश्च>> - तदाह — वाहीकग्रामवाचिभ्य इति ।

Padamanjari

Up

च्छस्यापवादौ इति । एवं च ये छेनैव बाधिता अव्ययतीररूप्योतरपदोदीच्यग्रामकोपधविषयास्तद्विषयेऽप्येतावेव भवतः, न चेदन्येन बाधः, तद्यथा - आरान्नाम वाहीकग्रामः आरात्की, आरात्का, ठिसुक्तान्तात्कःऽ । तथा कास्तीरं नाम वाहीकग्रामः कास्तीरिकी, कास्तीरिका । इह तु दाशरूप्यं नाम वाहीकग्रामः,'धन्वयोपधात्' इति वुञ् ठञ्ञिठौ बाधते - दाशरूप्यकः । तथा शकलान्यस्मिन्सन्ति शाकलं नामोदीच्यग्रामः भूयो वाहीकग्रामः, ततष्ठञ्ञिठौ भवतः - शाकलिकी, शाकलिका । इह तु सौसुकं नाम वाहीकग्रामः प्रस्थोतरपदादिसूत्रेण प्राप्तं कोपधलक्षणमणं छाए बाधते, परत्वातमप्यपवादत्वाद्'वृद्धादकेकान्त' इत्यत्र'कोपधग्रहणं सोसुकाद्यर्थम्' इति कोपलक्षणश्लो बाधते, सौसुकीयः ॥