4-2-116 काश्यादिभ्यः ठञ्ञिठौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् वृद्धात्
काशि इत्येवमादिभ्यष्ठञ् ञिठ इत्येतौ प्रत्ययौ भवतः शैषिकौ। इकार उच्चारणार्थः। ञकार एवोभयत्र विपर्यस्तदेशोऽनुबन्धः। स्त्रीप्रत्यये विशेषः। काशिकी, काशिका। चैदिकी, चैदिका। वृद्धादित्यत्रानुवर्तते। ये त्ववृद्धाः पठ्यन्ते वचनप्रामाण्यात् तेभ्यः प्रत्ययविधिः। देवदत्तशब्दः पठ्यते, तस्य <<एङ् प्राचां देशे>>१.१.७५इति वृद्धसंज्ञा। दैवदत्तिकः। वाहीकग्रामस्य तु नास्ति वृद्धसंज्ञा। दैवदत्तः। कथं भाष्य उदाहृतम् — वा नामधेयस्य वृद्धसंज्ञा वेदितव्या — देवदत्तीयाः, दैवदत्ताः(महाभाष्य १.१.८९) इति, यावता वृद्धसंज्ञापक्षे काश्यादित्वाट् ठञ्ञिठाभ्यां भवितव्यम्? तत्रैवं वर्णयन्ति — वा नामधेयस्येति व्यवस्थितविभाषेयम्, सा छे कर्तव्ये भवति, ठञ्ञिठयोर्न भवतीति॥ काशि। चेदि। संज्ञा। संवाह। अच्युत। मोहमान। शकुलाद। हस्तिकर्षू। कुदामन्। हिरण्य। करण। गोधाशन। भौरिकि। भौलिङ्गि। अरिन्दम। सर्वमित्र। देवदत्त। साधुमित्र। दासमित्र। दासग्राम। सौधावतान। युवराज। उपराज। सिन्धुमित्र। देवराज। आपदादिपूर्वपदात् कालात् (ग०सू० ९४)। आपत्कालिकी, आपत्कालिका। और्ध्वकालिकी, और्ध्वकालिका। तात्कालिकी, तात्कालिका॥
इकार उच्चारणार्थः । काशिकी । काशिका । वैदिकी । वैदिका ॥ (गणसूत्रम् -) आपदादिपूर्वपदात्कालान्तात् ॥ आपदादिराकृतिगणः । आपत्कालिकी । आपत्कालिका ॥
<<काश्यादिभ्यष्ठञ्ञिठौ>> - काश्यादिभ्यष्ठञ्ञिठौ । ठञ् — ञिठ इति प्रत्ययौ स्तः । ञिठप्रत्यये ञि इति समुदायस्य 'आदिर्ञिटुडवः' इति इत्संज्ञायां प्रयोजनाऽभावाञ्ञकार एव इत्, तस्य ञित्स्वरः प्रयोजनम् । ठञ एव विधौ तु ङीप् स्यात्, टाब् न स्यात् । नन्वेवं सति इठप्रत्यये ठस्य इकादेशो न स्यात्, अङ्गात्परत्वाऽभावादित्यत आह — उच्चारणार्थ इति । काशिकीति काश्यां जातादिरित्यर्थः । ठञन्तान्ङीप् । काशिकेति । ञिठप्रत्यये इकादेशे टाप् । वैदिकी वैदिकेति । वेदिर्देशविशेषः । आपदादिपूर्वपदादिति । गणसूत्रम् । ठञ्ञिठावित्येव । आपदादिरिति । आपत् आदिर्यस्येति विग्रहः । आपत्कालिकी आपत्कालिकेति । ठञि ङीप्, ञिठेटाप् । बाहीकग्रामेभ्यश्च । बाहीकाख्याः केचिद्ग्रामाः, तद्विशेषवाचिभ्य इत्यर्थः ।
वृद्धादित्येवेति । कथं तर्ह्यवृद्धेभ्यो युवराजादिभ्यः प्रत्यय इत्यत आह - ये त्विति । यद्यवृद्धेभ्यो वचनप्रामाण्यात्प्रत्ययौ भवतः, किमर्थं तर्हि वृद्धाधिकारः ? इत्यत आह - देवदतशब्द इत्यादि । कथं भाष्ये उदाहृतमिति । यद्यपि तत्र स्वयमपि च्छप्रत्ययमुदाहरत्येव, ततु भाष्यकारप्रामाण्येन न स्वातन्त्र्येणेति'भाष्ये' इत्युक्तम् । आपदादिपूर्वपदादिति । आपदादिराकृतिगणः । कालादिति । कालशब्दान्तादित्यर्थः ॥