4-2-113 न द्व्यचः प्राच्यभरतेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अण् गोत्रे इञः
द्व्यचः प्रातिपदिकात् प्राच्यभरतगोत्रादिञन्तादण् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। पैङ्गीयाः। प्रौष्ठीयाः। चैदीयाः। पौष्कीयाः। काशीयाः। पाशीयाः। द्व्यच इति किम्? पान्नागाराः। प्राच्यभरतेष्विति किम्? दाक्षाः। काशीया इति कथमुदाहृतम्, यावता काश्यादिभ्यष्ठञ्ञिठाभ्यां ४.२.११६भवितव्यम्? नैतदस्ति। देशवाचिनः काशिशब्दस्य तत्र ग्रहणम्, चेदिशब्देन साहचर्यात्। गोत्रात् तु <<वृद्धाच्छः>> ४.२.११४ एव भवति। ज्ञापकाद् २.४.६६अन्यत्र प्राच्यग्रहणेन भरतग्रहणं न भवतीति स्वशब्देन भरतानामुपादानं कृतम्॥
इञश्च <{SK1333}> इत्यणोऽपवादः । प्राष्ठीयाः । काशीयाः । भरतानां प्राच्यात्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥
<<न द्व्यचः प्राच्यभरतेषु>> - न द्वयचः । प्राच्येषु [परेषु ]भरतेषु च गोत्रेषु विद्यमानादिञन्तात् द्व्यचोऽण् न भवतीत्यर्थः । इञश्चेत्यणोऽपवादः । प्रतिषेध इत्यर्थः । प्राष्ठीया इति । प्राष्ठस्य गोत्रापत्यं प्राष्ठिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धाच्छः । सिङ्गमिति । तेन औद्दालकिः पिता, औद्दालकायनः पुत्र इत्यत्रइञः प्राचा॑मिति भरतेब्यो लुङ् न भवति ।
ननु च भरताः प्राच्या एव, तत्किमर्थं तेषां स्वशब्देन ग्रहणम् ? तत्राह - ज्ञापकादन्यत्रेति ।'बह्वच इञः प्राच्यभरतेषु' इत्यत्रायमर्थो ज्ञापतिः - ठन्यत्र प्राच्यग्रहणे भरतानां ग्रहणं न भवतिऽ इति । अपर आह - ज्ञापकादन्यत्रेत्यन्वयः, अन्यत्रास्यार्थस्य ज्ञापितत्वादित्यर्थः ॥