4-2-112 इञः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अण् गोत्रे
index: 4.2.112 sutra: इञश्च
गोत्रे इत्येव। गोत्रे य इञ् विहितः तदन्तात् प्रातिप्दिकातण् प्रत्ययो भवति शैषिकः। छस्य अपवादः। दाक्षाः। प्लाक्षाः। माहकाः। गोरे इत्येव, सौतङ्गमेरिदं सौतङ्गमीयम्।
index: 4.2.112 sutra: इञश्च
गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं नतु लौकिकम् । तेनेह न । पाणिनीयम् ॥
index: 4.2.112 sutra: इञश्च
इञश्च - इञश्च । दाक्षा इति । दक्षस्य गोत्रापत्यं दाक्षिः ।अत इञ॑ । दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुतङ्गमस्य निवासः सौतङ्गमिः ।सुतङ्गमादिभ्य इञ् । सौतङ्गमेरिदमित्यर्थे वृद्धाच्छः, न त्वण्, इञो गोत्रार्थकत्वाऽभावात् । गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि लौकिकमेव गोत्रमिति सिद्धान्तस्तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रं गृह्रते,यूनि लु॑गिति सूत्रभाष्ये तथोक्तत्वादिति भावः । पाणिनीयमिति । पणिनो गोत्रापत्यं पाणिनः । तस्यापत्यं युवा — पाणिनिः । तस्येदं पाणिनीयम् । वृद्धाच्छः । अण् तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः ।
index: 4.2.112 sutra: इञश्च
गोत्र इत्येवेति । पूर्वत्र पारिभाषिकस्य गोत्रस्य ग्रहणमित्युक्तम्, इहापि तदेवानुवर्तते, तेनात्रापि पारिभाषिकस्यैव ग्रहणादिह न भवति - पाणिनेर्यूनच्छात्त्राः पाणिनीया इति सौतङ्गमेरिदमिति । सुतङ्गमशब्दाद् वुञ्च्छणादिसूत्रेण चातुर्थिक इञ् । अत्रापत्यत्वमेव नास्तीति सुतरामगोत्रत्वाद्भवति प्रत्युदाहरणम् ॥