प्रस्थोत्तरपदपलद्यादिकोपधादण्

4-2-110 प्रस्थोत्तरपदपलद्यादिकोपधात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रस्थोत्तरपदात् पलद्यादिभ्यः ककारोपधात् च प्रातिपदिकादण् प्रत्ययो भवति शैषिकः। उदीच्यग्रामलक्षणस्याञोऽपवादः। माद्रीप्रस्थः। माहकीप्रस्थः। पलद्यादिभ्यः — पालदः। पारिषदः। ककारोपधात् — नैलीनकः। चैयातकः। पलद्यादिषु यो वाहीकग्रामः, ततष्ठञ्ञिठयोः ४.२.११७ अपवादः। यथा — गौष्ठी, नैतकीति। गोमतीशब्दः पठ्यते, ततो <<रोपधेतोः प्राचाम्>>४.२.१२३ इति वुञोऽपवादः। वाहीकशब्दः कोपधोऽपि पुनः पठ्यते परं छं ४.२.११४ बाधितुम्। अण्ग्रहणं बाधकबाधनार्थम्॥ पलदी। परिषत् यकृल्लोमन्। रोमक। कालकूट। पटच्चर। वाहीक। कलकीट। मलकीट। कमलकीट। कमलभिदा। गोष्ठी। कमलकीर। बाहुकीट। नैतकी। परिखा। शूरसेन। गोमती। उदयान। पलद्यादिः।

Siddhanta Kaumudi

Up

माहिकिप्रस्थः । पालदः । नैलीनकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रस्थोत्तरपदपलद्यादिकोपधादण्>> - प्रस्थोत्तरपद । प्रस्थोत्तरपदात्पलद्यादिभ्यः कोपधाच्च अणित्यर्थः । पलदिः-आदिर्येषामिति विग्रहः । उदीच्यग्रामलक्षणस्य अणोऽपवादः । माहिकिप्रस्थ इति । महिकिप्रस्थनाम्नि ग्रामे भव इत्यर्थः । पालद इति । पलदिनाम्नि ग्रामे भव इत्यर्थः । नैलीनक इति । निलीनकनाम्नि ग्रामे भव इत्यर्थः ।

Padamanjari

Up

उदीच्यग्रामलक्षणस्याञोऽपवाद इति । ततोऽन्यत्र व्रीहिप्रस्थ -गिरिप्रस्थ -करिकादावौत्सगिक एवाण्, कैलासप्रस्थ -काक -शाकादिषु वृद्धेषु'वृद्धाच्छः' भवति, देशवाचिनि तु मालाप्रस्थादौ'प्रस्थपुरवहान्ताच्च' इति वुञ्, इक्ष्वाकुप्रभृतिषु जनपदवुञोऽपवादः'कोपधादण्' इत्यण्वक्ष्यते, अरीहणकादौ च'वृद्धादकेकान्त' इति छाए भवति, तस्मादञोऽपवाद इति सुष्ठूअक्तम् । उतरपदग्रहणादिह न भवति - उतरोमाहकिप्रस्थ उतरमाहकिप्रस्थः, तत्र भ इति ।'प्रस्थान्तात्' इति तूच्यमानेऽत्रापि स्यात् । अण्ग्रहणं बाधकबाधनार्थमिति । यद्यण्ग्रहणं न क्रियेत, तदा यदत्र वृद्धं वाहीकग्रामवाचि तस्मात्'प्राग्दीव्यतो' ण्ऽ इत्यणि प्राप्ते'वृद्धाच्छः' प्राप्तः, तस्मिन्ठ्वाहीकग्रासेभ्यश्चऽ इति ठञ्ञिठाभ्यां बाधिते पुनर्विधानाच्छ एव स्यात् । तस्माद्वाधकमपि तं छ्ंअ बाधित्वा अण्ग्रहणादणेव भवति । यकृल्लोमशब्दः पठ।ल्ते, यकृल्लोम्नि भः याकृल्लोमः, ठन्ऽ इति प्रकृतिभावो न भवति, गणे नलोपनिपातनादित्याहुः ॥