उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्

4-2-109 उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अञ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दिग्ग्रहणं निवृत्तम्। उदीच्यग्रामवाचिनः प्रातिपदिकाद् बह्वचोऽन्तोदात्ताद् अञ् प्रत्ययो भवति शैषिकः। अणोऽपवादः। शैवपुरम्। माण्डवपुरम्। उदीच्यग्रामादिति किम्? माथुरम्। बह्वच इति किम्? ध्वजी — ध्वाजम्। अन्तोदात्तादिति किम् ? शार्करीधानम्। शर्करीधानशब्दे लित्स्वरेण धाशब्द उदात्तः॥

Siddhanta Kaumudi

Up

अञ् स्यात् । शैवपुरम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्>> - उदीच्यग्रामाच्च । शैवपुरमिति । उत्तरदेशे शिवपुरं नाम ग्रामविशेषः । तत्र भवमित्यर्थः । समासस्येत्यन्तोदात्तः शिवपुरशब्दः । बह्वचः किम् । ङीषन्तो ध्वञ्जी नाम उत्तरदेशे ग्रामविशेषः । तत्र भवो ध्वाञ्जः । अन्तोदात्तात्किम् । शार्करीधनाम् । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यैवावस्थानान्मध्योदात्तोऽयम् ।

Padamanjari

Up

शैवपुरमिति ।'प्रस्थपुरवहान्तात्' इति वुञ् न भवति;'वृद्धात्' इति तत्र वर्तते ॥