4-2-108 मद्रेभ्यः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् दिक्पूर्वपदात्
दिक्पूर्वपदादित्येव। दिक्पूर्वपदाद् मद्रशब्दादञ् प्रत्ययो भवति शैषिकः। पौर्वमद्रः। आपरमद्रः। <<दिशोऽमद्राणाम्>>७.३.१३ इति पर्युदासादादिवृद्धिरेव॥
दिक्पूर्वपदादित्येव । दिशोऽमद्राणाम् <{SK1399}> इति मद्रपर्युदासादादिवृद्धिः । पौर्वमद्रः । आपरमद्रः ॥
<<मद्रेभ्योऽञ्>> - मद्रेभ्योऽञ् । इत्येवेति । दिक्पूर्वान्मद्रशब्दादञित्यर्थः । पर्युदासादिति । उत्तरपदवृद्धेः पर्युदासे सति आदिवृद्धिरित्यर्थः । बहुवचनाज्जनपदवाचिन एव ग्रहणम् । पौर्वमद्र इति । पूर्वेषु मद्रेषु भव इत्यर्थः ।
मद्रशब्दो जनपदवचनः, बहुवचननिर्देशो जनपदवाचिनः परिग्रहार्थः, तेन मद्रपर्यायो न गृह्यते । पौर्वमद्र इति । मद्रैकदेशे मद्रशब्दस्य वृतेर्दिक्शब्देन सामानाधिकरण्ये सति'तद्धितार्थ' इति समासः ॥