4-2-107 दिक्पूर्वपदात् असञ्ज्ञायां ञः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
असंज्ञायामिति प्रकृतिविशेषणम्। दिक्पूर्वपदात् प्रातिपदिकादसंज्ञाविषयाद् ञः प्रत्ययो भवति शैषिकः। अणोऽपवादः। पौर्वशालः। दाक्षिणशालः। आपरशालः। असंज्ञायामिति किम्? पूर्वैषुकामशमः। अपरैषुकामशमः। <<दिक्संख्ये संज्ञायाम्>> २.१.५० इति समासः। <<प्राचां ग्रामनगराणाम्>> ७.३.१४ इत्युत्तरपदवृद्धिः। पदग्रहणं स्वरूपविधिनिरासार्थम्॥
अणोपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्माभूत् । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।प्राचां ग्रामनगरणाम् <{SK1400}> इत्युत्तरपदवृद्धिः ॥
अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्॥
<<दिक्पूर्वपदादसंज्ञायां ञः>> - दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असंज्ञाभूताद्दिक्पूर्वपदकाञ्ञः स्यादित्यर्थः । पौर्वशाल इति । पूर्वस्यां शालायां भव इत्यर्थे 'तद्धितार्थ' इति समासाञ्ञः ।
असंज्ञायामिति । न चैवमसंज्ञाया इति पञ्चम्या निर्देशः, विषयसप्तम्यापि तदर्थलाभादित्याह - संज्ञाविषयादिति । पौर्वशाल इति । पूर्वस्यां शालायां भव इति तद्धितार्थे समासः, ततः प्रत्ययः । पदग्रहणमित्यादि ।'दिक्पूर्वाद्' इत्युच्यमाने स्वरूपं स्यात्, ततश्च दिग्गज इत्यादेरेवस्यात् । पदग्रहणे तु सति दिग्विशेषवाचिनां ग्रहणं भवति, कथम् ? व्यधिकरणपदो बहुव्रीहिः - दिशः पूर्वपदमस्मिन्निति,'दिशः' इति वाचकापेक्षया षष्ठी, दिशो वाचकं पूर्वपदस्मिन्नित्यर्थः ॥