तीररूप्योत्तरपदादञ्ञौ

4-2-106 तीररूप्योत्तरपदात् अञ्ञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तीरोत्तरपदाद् रूप्योत्तरपदात् च प्रातिपदिकाद् यथासंख्यमञ् ञ इत्येतौ प्रत्ययौ भवतः शैषिकौ। अणोऽपवादौ। काकतीरम्। पाल्वलतीरम्। रूप्योत्तरपदात् — वार्करूप्यम्। शैवरूप्यम्। तीररूप्यान्तादिति नोक्तम्, बहुच्प्रत्ययपूर्वाद् मा भूदिति। बाहुतीरम्। अणेव भवति।

Siddhanta Kaumudi

Up

यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम् । बहुच्पूर्वान्माभूत् । बाहुरूप्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तीररूप्योत्तरपदादञ्ञौ>> - तीररूप । तीरोत्तरपदाद्रूपोत्तरपदाच्च क्रमादञ्ञ्यश्चेत्यर्थः । काकतीरमिति । ककतीरे भवतित्यर्थः । पाल्वलतीरमिति । पल्वलतीरे भवमित्यर्थः । शैवरूप्यमिति । शिवरूपे भवमित्यर्थः ।रूप्योत्तरपदे॑ति क्वचित्पाठः । तथा सति ञ्यप्रत्ययेयस्येति चे॑त्यकारलोपे द्वियकारं रूपम् । बाहुरूपमिति ।विभाषा सुपो बहुच् पुरस्तात्तु॑ इति बहुपूर्वस्य रूपान्तत्वेऽपि तदुत्तरपदकत्वाऽभावान्न ञ्य इति भावः ।

Padamanjari

Up

अञ्जपोः स्त्रियांविशेषः - काकतीरी, चाणाररूप्या । बहुच्पूर्वान्मा भूदिति । अन्यथा बहुतीरशब्दादपि स्यात्, उतरपदशब्दस्य तु समासविषये नियतत्वान्नास्ति बहुच्पूर्वात्प्रसङ्गः ॥