ऐषमोह्यःश्वसोऽन्यतरस्याम्

4-2-105 ऐषमोह्यःश्वसः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् त्यप्

Kashika

Up

index: 4.2.105 sutra: ऐषमोह्यःश्वसोऽन्यतरस्याम्


ऐषमस् ह्रस् श्वसित्येतेभ्योऽन्यतरस्यां त्यप्प्रत्ययो भवति शैषिकः। ऐषमस्त्यम्, ऐषमस्तनम्। ह्रस्त्यम्, ह्रस्तनम्। श्वस्त्यम्, श्वस्तनम्। श्वसस्तुट् च 4.3.15 इति ठञपि तृतीयो भवति। शौवस्तिकम्।

Siddhanta Kaumudi

Up

index: 4.2.105 sutra: ऐषमोह्यःश्वसोऽन्यतरस्याम्


एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥

Balamanorama

Up

index: 4.2.105 sutra: ऐषमोह्यःश्वसोऽन्यतरस्याम्


ऐषमोह्यःश्वसोऽन्यतरस्याम् - ऐषमोह्रः । एभ्य इति । ऐषमस्, ह्रस्, आस् एतेभ्य इत्यर्थः । वक्ष्यमाणाविति ।सायञ्चिरंप्राहेप्रगेऽव्ययेभ्यष्टउठ्युलौ तुट् चे॑त्यनेनेति शेषः । ऐषमस्त्यमिति । ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते । तत्र भवमित्यर्थः ।परुत्परो र्यैषमो ।ञब्दे पूर्वे पूर्वतरे यती॑त्यमरः । ऐषमस्तनमिति । ठ्युठ्युलौ वा । टावितौ, य्वोरनादेशः, तस्य तुट्, ट इत्, उकार उच्चारणार्थः, टित्त्वादाद्यवयवः । ह्रस्त्यं, ह्रस्तनमिति । ह्रसित्यव्ययं गतेऽह्नि । तत्र भवमित्यर्थः । आस्त्यं-आस्तनमिति । आस् इत्यव्ययमनागतेऽह्नि । तत्र भवमित्यर्थः ।ह्रो गतेऽनागतेऽह्नि आः॑ इत्यमरः । पक्षे इति ।आसस्तुट् चे॑ति ठञि तस्य इकादेशे तुडागमेद्वारादीनां चे॑त्यैजागमेशौवस्तिक॑मित्यपि वक्ष्यमाणं रूपमित्यर्थः ।

Padamanjari

Up

index: 4.2.105 sutra: ऐषमोह्यःश्वसोऽन्यतरस्याम्


ठञपि तृतीयो भवतीति । विधिवाक्यापेक्षं तृतीयत्वम्, प्रत्ययापेक्षया तु ठञ् चतुर्थः,'श्वसस्तुट् च' इत्यत्र विकल्पाधिकारात् ट।लुट।लुलावपि भवतः ॥