अव्ययात्त्यप्

4-2-104 अव्ययात्त्यप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अव्ययात् त्यप् प्रत्ययो भवति शैषिकः।

अमेहक्वतसित्रेभ्यस्त्यब्विधिर्योऽव्ययात् स्मृतः।

निनिर्भ्यां ध्रुवगत्योश्च प्रवेशो नियमे तथा॥

अमात्यः। इहत्यः। क्वत्यः। इतस्त्यः। तत्रत्यः। यत्रत्यः। परिगणनं किम् ? औपरिष्टः। पौरस्तः। पारस्तः। वृद्धात् तु छो भवति। आरातीयः॥ त्यब् नेर्ध्रुवे॥ नियतं ध्रुवं नित्यम्॥ निसो गते॥ निर्गतो वर्णाश्रमेभ्यो निष्ट्यश्चण्डालादिः॥ आविसश्छन्दसि॥ आविस्शब्दाच् छन्दसि त्यप् प्रत्ययो भवति। आ॒विष्ट्यो॑ वर्धते॒ (ऋ० १.९५.५)॥ अरण्याण् णो वक्तव्यः॥ आरण्याः सुमनसः॥ दूरादेत्यः॥ दूरेत्यः पथिकः॥ उत्तरादाहञ् ॥ औत्तराहम्॥

Siddhanta Kaumudi

Up

।<!अमेहक्वतसित्रेभ्य एव !> (वार्तिकम्) ॥ अमाऽन्तिकसहार्थयोः । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः ।<!अव्ययानां भमात्रे टिलोपः !> (वार्तिकम्) ॥ अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः ।<!त्यब्नेर्ध्रुव इति वक्तव्यम् !> (वार्तिकम्) ॥ नित्यः ।<!निसो गते !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

<<अमेहक्वतसित्रेभ्य एव>> (वार्त्तिकम्)। अमात्यः। इहत्यः। क्वत्यः। ततस्त्यः। तत्रत्यः। <<त्यब्नेर्ध्रुव इति वक्तव्यम्>> (वार्त्तिकम्) । नित्यः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अव्ययात्त्यप्>> - अव्ययात्त्यप् ।अमेहेति । अमा, इह, क्व, तसि, त्र एभ्य एव अव्ययेभ्यस्त्यप्प्रत्यय इति परिगणनवार्तिकमिदम् । अमात्य इति । समीपे सह वा जात इत्यर्थः । औपरिष्ट इति ।उपरिष्टा॑दित्यव्ययस्य परिगणितेष्वनन्तर्भावान्न त्यप् । अणि 'औपरिष्ट' इति रूपमित्यर्थः । कथमिह टिलोप इत्यत आह — अव्ययानामिति । वार्तिकमिदम् । भमात्रे इति । कार्त्स्न्ये मात्रशब्दः । कृत्स्नस्य भस्याव्ययस्य टेर्लोपः । 'नस्तद्धिते' इत्याद्युपाधिर्नापेक्षित इत्यर्थः । नन्वेवं सति आरादित्यव्ययाच्छस्य ईयादेशे टिलोपे 'आरीय' इति स्यादित्यत आह — अनित्योऽयमिति । त्यब्नेरिति । नि इत्यव्ययात्त्यप् स्याद्ध्रुवे गम्ये इत्यर्थः । नियतं भवं नित्य॑मिति भाष्यम् । निसो गत इति । निस् इस्यव्ययात्त्यब्वक्तव्यो गते गम्ये इत्यर्थः । निस्-त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाऽभावाच्च षत्वे अप्राप्ते — ।

Padamanjari

Up

अमेहेति । योऽव्ययात्यब्विहितः सोऽमादिभ्य एव स्मृत इत्यर्थः । अमाशब्दः समीपवाची स्वरादिः, अमा समीपे भवोऽमात्यः । औपरिष्ट इति । उपरिष्टाद्भव इत्यणि कृते ठव्ययानां भमात्रे टिलोपःऽ इति टिलोपः । परतः शब्दः'विभाषा परावराभ्याम्' इत्यतसुजन्तः, तत्र भवः । आरातीय इति ।'बहिषष्टिलोपश्च' इत्यनित्यत्वज्ञापनादत्र टिलोपाभावः । त्यब्नेर्ध्रुव इति । निशब्दाद् ध्रुवे वाच्ये त्यब्भवति । नियतं सर्वकालं भवो नित्यः । निसो गते इति । निः शब्दाद् गते वाच्ये त्यब्भवति । निष्ट।ल् इति ।'ह्रस्वातादौ तद्धिते' इति षत्वम्, तकारस्य ष्टुअत्वम् । एवमाविर्भूतमाविष्ट।ल्म् । अरण्याण्ण इति । अणि सति ङीप् स्यादिति णो विधीयते । दूरेत्य इति ।'तत आगतः' इत्यत्रार्थे एत्यः । उतरादाहञिति । आद्यौदातार्थं वचनम् । औतराहमिति । ठुतराच्चऽ इत्याहिप्रत्ययः, उतराहिशब्दात्परिगणनेन त्यपोऽभावादणि सति सिद्धम् ॥