वर्णौ वुक्

4-2-103 वर्णौ वुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कन्थायाः ठक्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कन्थाया इत्येव। वर्णौ या कन्था तस्या वुक् प्रत्ययो भवति शैषिक ः। ठकोऽपवादः। वर्णुर्नाम नदः, तत्समीपो देशो वर्णुः। तद्विषयार्थवाचिनः कन्थाशब्दादयं प्रत्ययः। तथाहि — जातं हिमवत्सु कान्थकम्॥

Siddhanta Kaumudi

Up

वर्णुर्नदस्तस्य समीपदेशो वर्णुः, तद्विपयार्थवाचिकन्थाशब्दाद्वुक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वर्णौ वुक्>> - वर्णौ वुक् । वर्णुसमीपेति । वर्णुर्नाम सिन्धुनदः, तस्याऽदूरभव इत्यर्थे सुवास्त्वादित्वादणोजनपदे लुबि॑ति लुप् । तथाच वर्णुसमीपदेशो वर्णुः, तस्मिन् या कन्था तद्वाचकाद्वक्प्रत्यय इति यावत् ।

Padamanjari

Up

तत्समीपो देशो वर्णुरिति । ठदूरभवश्चऽ इत्यर्थे'सुवास्त्वादिभ्यो' ण्ऽ इत्यण्, तस्य'जनपदे लुप्' इति लुप् । तद्विषयार्थवाचिन इति । स वर्णुर्देअशो विषयो यस्यार्थस्य तद्वाचिन इत्यर्थः । विषयग्रहणेन वर्णाविति विषयसप्तमी दर्शयति ॥