4-2-101 द्युप्रागपागुदक्प्रतीचः यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.101 sutra: द्युप्रागपागुदक्प्रतीचो यत्
दिव् प्राचपाचुदच् प्रत्यचित्येतेभ्यो यत् प्रत्ययो भवति शैसिकः। दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्। अव्ययात् तु कालवाचिनः परत्वात् ट्युट्युलौ भवतः। प्राक्तनम्।
index: 4.2.101 sutra: द्युप्रागपागुदक्प्रतीचो यत्
दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥
index: 4.2.101 sutra: द्युप्रागपागुदक्प्रतीचो यत्
दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्॥
index: 4.2.101 sutra: द्युप्रागपागुदक्प्रतीचो यत्
द्युप्रागपागुदक्प्रतीचो यत् - द्युप्रागपाक् । दिव्, प्राञ्च्, अपाञ्च्, उदञ्च्, प्रत्यञ्च् एभ्यो यत्स्यादित्यर्थः । सूत्रे 'दिव उत्' इत्युत्त्वेन निर्देशः । दिव्यमिति । दिवि जातादीत्यर्थः । प्राच्यमिति । प्राचि प्रदेशे जातादीत्यर्थः । तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थितेअनिदिता॑मिति नलोपे 'अचः' इत्यकारलोपे 'चौ' इति दीर्घे प्राच्यमिति रूपम् । अपाच्यमिति । इदमपि पूर्ववत् । उदीच्यमिति । अत्रउद ईदि॑ति ईत्त्वं विशेषः । प्रतीच्यमिति । प्राच्यवद्रूपम् ।
index: 4.2.101 sutra: द्युप्रागपागुदक्प्रतीचो यत्
'द्यौ' इति दिव उत्वेन निर्देशः । द्यौशब्दस्य तु ग्रहणं न भवति, व्याख्यानात् । अवाच्यमिति । अवाची उ दक्षिणा दिक् । अव्ययातुकालवाचिन इति । यथाव्ययात्कालवाचिनः'कालाट्ठञ्' इति ठञ्न भवति; न्यायस्य तुल्यत्वात् ॥