हरितादिभ्योऽञः

4-1-100 हरितादिभ्यः अञः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे फक्

Sampurna sutra

Up

'तस्य गोत्रे अपत्यम्' (इति) हरितादिभ्यः अञः फक्

Neelesh Sanskrit Brief

Up

युवापत्यस्य निर्देशार्थम् हरितादिगणस्य अञ्-प्रत्ययान्तशब्देभ्यः फक्-प्रत्ययः भवति ।

Kashika

Up

हरितादिर्बिदाद्यन्तर्गणः ४.१.१०४। हरितादिभ्योऽञन्तेभ्योऽपत्ये फक् प्रत्ययो भवति। इञोऽपवादः। हरितस्यापत्यं हारितायनः। कैन्दासायनः। ननु च गोत्र इति वर्तते। न च गोत्रादपरो गोत्रप्रत्ययो भवति, <<एको गोत्रे>> ४.१.९३ इति वचनात्? सत्यमेतत्। इह तु गोत्राधिकारेऽपि सामर्थ्याद् यूनि प्रत्ययो विज्ञायते। गोत्राधिकारस्तूत्तरार्थः॥

Siddhanta Kaumudi

Up

एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<हरितादिभ्योऽञः>> - ॒हरितादिभ्योऽञ॑ इत्यादि स्पष्टम् ।

Padamanjari

Up

'हरितादिभ्यः' , ठञःऽ इति व्यधिकरणे पञ्चम्यौ । हरितादिभ्यः परो योऽञ् तदन्तात्प्रातिपदिकादित्यर्थः । वृत्तिकारोऽप्येतदेव वस्तुतो व्याचष्टे - हरितादिभ्योऽञन्तेभ्य इति ।'हरितादिभ्यो गोत्रापत्ये' ञ्प्रत्ययो भवतिऽ इत्ययं त्वर्थो न भवति; बिदादिषु पाठात् । सामर्थ्यादिति । गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो न भवतीत्येतत्सामर्थ्यम् । तस्माद्गोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते । न चैवं गोत्राधिकारस्य विच्छेद इत्याह - गोत्राधिकार इति । उतरार्थं गोत्रग्रहणमनुवर्तत एवेत्यर्थः ॥