यूनि लुक्

4-1-90 यूनि लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् अचि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्राग् दीव्यत इति वर्तते, अचीति च। प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव युवप्रत्ययस्य लुग् भवति। तस्मिन्निवृत्ते सति यो यतः प्राप्नोति, स ततो भवति। फाण्टाहृतस्यापत्यं फाण्टाहृतिः। तस्यापत्यं युवा, <<फाण्टाहृतिमिमताभ्यां णफिञौ>> ४.१.१५० फाण्टाहृतः। तस्य छात्रा इति विवक्षितेऽर्थे बुद्धिस्थे युवप्रत्ययस्य लुग् भवति। तस्मिन् निवृत्त इञन्तं प्रकृतिरूपं संपन्नम्। तस्माद् <<इञश्च>> ४.२.११२ इत्यण् भवति। फाण्टाहृताः। भागवित्तस्यापत्यम्, भागवित्तिः। तस्यापत्यं युवा <<वृद्धाट्ठक् सौवीरेषु बहुलम्>> ४.१.१४८ इति ठक्, भागवित्तिकः। तस्य छात्राः, पूर्ववद् युवप्रत्यये निवृत्त <<इञश्च>> ४.२.११२ इत्यण्, भागवित्ताः। तिकस्यापत्यं <<तिकादिभ्यः फिञ्>> ४.१.१५४ तैकायनिः। तस्यापत्यं युवा <<फेश्छ च>> ४.१.१४९ इति छः, तैकायनीयः। तस्य छात्राः, युवप्रत्यये निवृत्ते <<वृद्धाच्छः>> ४.२.११४ तैकायनीयाः। कपिञ्जलादस्यापत्यं कापिञ्जलादिः, तस्यापत्यं युवा <<कुर्वादिभ्यो ण्यः>> ४.१.१५१ कापिञ्जलाद्यः। तस्य छात्राः, ण्ये निवृत्त <<इञश्च>> ४.२.११२ इत्यण् कापिञ्जलादाः। ग्लुचुकस्यापत्यं <<प्राचामवृद्धात् फिन् बहुलम्>> ४.१.१६० इति ग्लुचुकायनिः। तस्यापत्यं युवा <<प्राग्दीव्यतोऽण्>> ४.१.८३ ग्लौचुकायनः। तस्य छात्राः, युवप्रत्यये निवृत्ते स एवाण् ग्लौचुकायनाः। अचीत्येव — फाण्टाहृतरूप्यम्। फाण्टाहृतमयम्। प्राग्दीव्यत इत्येव — भागवित्तिकाय हितम्, भागवित्तिकीयम्॥

Siddhanta Kaumudi

Up

प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः, वक्ष्यमाणः फिन्, ततो यून्यण्, ग्लौचुकायनः । तस्य च्छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यूनि लुक्>> - यूनि लुक् । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्चप्राग्दीव्यतीये प्रत्यये॑ इति लभ्यते । अचीति प्रत्ययविशेषणं, तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी । तदाह — अजादौ प्राग्दीव्यतीये विवक्षिते इति । युवप्रत्ययस्येति । युवार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम्,अत इ॑ञितीञः प्राप्तेरित्यत आह — वक्ष्यमाण इति ।प्राचामवृद्धात्फिन्बहुल॑मित्यनेने॑ति शेषः । आयन्नादेशे ग्लुचुकायनिरिति रूपमिति भावः । तत इति । ग्लुचुकायनेरपत्यार्थेतस्यापत्य॑मित्यणि आदिवृद्धौयस्येति चे॑ति लोपे 'ग्लौचुकायन' इति रूपमित्यर्थः । तस्येति । ग्लौचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापत्याऽणो लुकि 'ग्लौचुकायन' इत्येव रूपमित्यर्थः । ननु युवापत्याऽणःयस्येति चे॑ति लोपेनैव छात्रार्थे ग्लौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह — अणो लुकीति । छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याऽणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाऽभावाच्छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वाच्छः स्यात् । अतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः । स्थितश्चातुर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद्द्वैतीयीको युवप्रत्ययलुगनुक्रम्यते- ।

Padamanjari

Up

अत्रापि यद्यचीति परसप्तमी स्यात्, प्रत्ययस्य यथेष्टप्रसङ्गः । युवप्रत्यये श्रूयमाणे यः प्राप्नोति स तावत्कतव्यः, तत्र कृते युवप्रत्ययस्य लुकि तस्य श्रवणं प्राप्नोति, विषयसप्तम्यां त्वजादौ विषयभूत एव युवप्रत्यये लुप्ते यो यतः प्राप्नोति ततः स स भवतीति सिद्धमिष्टम् । एतच्चोदाहरणेषु व्यक्तीकरिष्यते, तदेतदाह - अजादौ प्रत्यये विवक्षित इत्यादि । इञश्चेत्यण् भवतीति । परससप्तम्यां तु वृद्धाच्छ एव स्यात् । फेश्च्छ चेति ।'यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः' इति परिगणनं भाष्यकारेण नाश्रितम्, तेन तैकायनेरपिच्छाए भवति । तैकायनीया इति । अत्र परसप्तम्यामप्यदोषः,'ण्यक्षत्रियार्षञितः' इत्यत्र तु वृत्तिकारेणाणो लुगुदाहृतः - तैकायनिः पिता तैकायनिः पुत्र इति, स परिगणनाश्रयेण द्रष्टव्यः, तदा च तैकायनीया इत्यनुदाहरणम् । कापिञ्जलादा इति । अत्रापि परसप्तम्यां वृद्धाच्छः स्यात् । एवं ग्लौचुकायना इत्यत्रापि द्रष्टव्यम् । इह तु औपगवेर्यूनश्छात्रा इञो लुकि वृद्धाच्छाए भवति, परसप्तम्याम्, ठिञश्चऽ इत्यण्स्यात् । नैतदस्य योगस्योदाहरणम्, कथम् ? ठिञश्चऽ इत्यत्र'गोत्रे' इति वर्तते, तेनेञं विशेषयिष्यामः - गोत्रे य इञ् विहित इति पारिभाषिकं च गोत्रं गृह्यते, कथम् ?'कण्वादिभ्यो गोत्रे' इत्यत्र तावद्'गोत्रेकुञ्जादिभ्यः' इत्यस्य गोत्रस्यानुवादः - कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तादण् भवतीति, तत्र च पारिभाषिकं गृह्यते तस्यैव चानुवादः, तदेव च ठिञश्चऽ इत्यत्राप्यनुवर्तते, तत्कुतो युवप्रत्ययान्तादणः प्रसङ्गः ! अवश्यं चैतदेवं विज्ञेयम्, अन्यथा लुप्तेऽपीञि प्रत्ययलक्षणेनाण् स्यादेव । इमानि तर्ह्यत्रोदाहरणानि - यत्खच्छान्ताः । यत् - राजश्वशुराद्यत्ऽ, श्वशुरस्यापत्यं श्वसुर्यः, तस्यापत्यं श्वाशुरिस्तस्य छात्रा इति लुकि'प्राग्दीव्यतो' ण्ऽ भवति श्वाशुरः, अन्यथा'वृद्धाच्छः' स्यात् ;'कुलात्खः' कुलीनः, तस्यापत्यं कौलीनिः, तस्य छात्त्राः, इञो लुकि कौलीनः;'स्वसुश्च्छः' , स्वस्रीयः, तस्यापत्यं स्वास्रीयिः, तस्य छात्रा इञो लुकि स्वस्रीयाः ? नैतान्युदाहरणानि; ठब्राह्मणाद् गोत्रमात्राद्यौवप्रत्ययस्योपसङ्ख्यानम्ऽ इतीञो लुकि कृते श्वशुर्यः पिता श्वशुर्यः पुत्रः, कुलीनः पिता कुलीनः पुत्रः, स्वस्रीयः पिता स्वस्रीयः पुत्र इति भवितव्यम् । न च ब्राह्मणगोत्रे कश्चिदवृद्धिनिमितः प्रत्ययः सम्भवति, यत इञि कृते च्छः प्राप्नोति; वृद्धिनिमिते तु गोत्रप्रत्यये नास्ति विशेषः, यतः श्रूयमाणोऽपीञि छेन भवितव्यम् । लुप्तेऽपि तस्मिन् गोत्रप्रत्ययान्तस्यापि वृद्धत्वाच्छेन भवितव्यम्, तद्यथा - औपगवीया इति । तदेवमिञ उदाहरणं न सम्भवतीति स्थितम् । यदि तु पूर्वसूत्रे लौकिकस्य गोत्रस्य ग्रहणं तदा स्यादेवेञ उदाहरणम् । तथा हिश्वशुर्यादिभ्य उत्पन्नस्येञः, सत्यप्यौपसङ्ख्यानिके लुकि तस्य प्राग्दीव्यतीयविवक्षायाम्'गोत्रे' लुगचिऽ इति प्रतिषेधेन पुनः प्रादुर्भावादिञाश्रयः'वृद्धाच्छः' स्यात्, यदि तस्य'यूनि लुक्' इति लुग्न क्रियेत । अतोऽस्मादिञ उदाहरणत्वप्रतिषेधायप्यवसीयते - पारिभाषिकं गोत्रं पूर्वसूत्रे भाष्यकारस्याभिमतमिति । किमर्थं पुनरिदमुच्यते, यावता यूनोऽपिगोत्ररूपे विवक्षिते गोत्रप्रत्ययेनाभिधानातन्निबन्धन एव प्रत्ययो भविष्यति, अर्थप्रकरणादिना च युवविशेषसिद्धिः, अवश्यं चार्थप्रकरणादिनैव विशेषोऽवसातव्यः, आरब्धेऽपियस्मिन्सूत्रे शब्दस्य साधारणत्वात् । न हि ज्ञायते - किं भागवितेश्छात्रा भागविताः ? आहोस्विद्भागवितिकस्येति ? यदा तर्हि विशेषविवक्षा, तदापि भागविता इत्येव यथा स्याद्, भागवितिकीया इति जातुचिन्मा भूदित्येवमर्थमिदम् ॥