क्रौड्यादिभ्यश्च

4-1-80 क्रौड्यादिभ्यः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् तद्धिताः ष्यङ् गोत्रे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्रौडि इत्येवमादिभ्यश्च स्त्रियां ष्यङ् प्रत्ययो भवति। अगुरूपोत्तमार्थ आरम्भः, अनणिञर्थश्च। क्रौड्या। लाड्या॥ क्रौडि। लाडि। व्याडि। आपिशलि। आपक्षिति। चौपयत। चैटयत। शैकयत। बैल्वयत। वैकल्पयत। सौधातकि। सूत युवत्याम् (ग०सू० ५४)। भोज क्षत्रिये (ग०सू०५५)। भौरिकि। भौलिकि। शाल्मलि। शालास्थलि। कापिष्ठलि। गौलक्ष्य। गौकक्ष्य॥

Siddhanta Kaumudi

Up

स्त्रियां ष्यङ् प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिञर्थश्चारम्भः । क्रौड्या । व्याड्या । (गणसूत्रम् -) सूत युवत्याम् । सूत्या । (गणसूत्रम् -) भोज क्षत्रिये । भोज्या ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्रौड्यादिभ्यश्च>> - क्रौडआदिभ्यश्च ।प्रत्ययविधि॑रिति भाष्योक्तं पक्षान्तरमाश्रित्याह — ष्यङ्प्रत्यय इति । पूर्वेण सिद्धे किमर्थमिदमित्यत आह — अगुरूपोत्तमार्थोऽनणिञन्तार्थश्चेति । क्रौडएति । क्रोडस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङ्, चाप् । इहत्र्यादीनामन्त्यमुत्तम॑मित्युक्तेर्न गुरूपोत्तमत्वम् । मनुष्यनामत्वे त्वण् । 'गौकक्ष्य' शब्दो गर्गादिञन्तः । तस्य अनणिञन्तत्वेऽपि ष्यङ् । सूतयुवत्वामिति । गणसूत्रमिदम् । सूतशब्दो युवत्या ष्यङं लभत इत्यर्थः । सूत्रेयति । प्राप्तयौवनेत्यर्थः । जातौ तु सूतीत्येव । भोज क्षत्रिये । इदमपि गणसूत्रम् ।

Padamanjari

Up

ष्यङ् प्रत्ययो भवतीति । क्रौड।लदिभ्य इति पञ्चमीनिर्देशात्प्रत्ययपक्षेऽप्यत्र दोषाभावाच्चैवमुक्तम् । अगुरूपोतमार्थ इत्यादि । तत्र क्रोड।लदयः प्राक्चोपयतशब्दादत इञन्ताः, चौपयतप्रभृतयः प्राग् सौधातकिशब्दादणन्ताः, सौधातकिशब्दः'सुधातुरकङ्च' इति इञन्तः । सूत युवत्यामिति । सूतशब्दः ष्यङ्मुत्पादयति युवत्यां प्राप्तयौवनायामभिधेयायाम् - सूत्या, अन्यत्र क्रियाशब्दाट्टाब् भवति - सूता, जातिवाचिनस्तु ङीष् भवति - सूती । भोज क्षत्रिये इति । जातिलक्षणस्य ङीषोऽपवादः - भोज्या, क्रियाशब्दातु टाबेव भवति - भोजयतीति भोजा, ततः परे इञन्ताः । गौकक्ष्यशब्दो गर्गादियञन्तः ॥