4-1-79 गोत्रावयवात् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् तद्धिताः अणिञोः ष्यङ् गोत्रे
index: 4.1.79 sutra: गोत्रावयवात्
अणिञोः इत्येव। गोत्रावयवाः गोत्राभिमताः कुलाख्याः पुणिकभुणिकमुखरप्रभृतयः। ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशो भवति। अगुरूपोत्तमार्थ आरम्भः। पौणिक्या। भौणिक्या। मौखर्या। येषां स्वनन्तरापत्येऽपि इष्यते दैवदत्त्या, याज्ञादत्त्या इति , ते क्रौड्यादिषु द्रष्टव्याः।
index: 4.1.79 sutra: गोत्रावयवात्
गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थं आरम्भः । पौणिक्या । भौणिक्या ॥
index: 4.1.79 sutra: गोत्रावयवात्
गोत्रावयवात् - गोत्रावयवात् । गोत्रावयवशब्दं व्याचष्टे-गोत्रावयवा गोत्राभिमता इति । गोत्र=कुलम्, अभिमतं=प्रख्यातं याभिरिति विग्रहः । कुलप्रख्यातिकृत इत्यर्थः ।कुलव्यपदेशकृत इति यावत् । तदाह — कुलाख्या इति । कुलमाख्यायते व्यपदिश्यते आभिरिति कुलाख्याः । कुलनामानीत्यर्थः । पुणिकादिशब्दैर्हि कुलं व्यपदिश्यते-॒पुणिकाः वयं॑,भुणिकाः वय॑मित्यादि । अवपूर्वकात् 'यु मिश्रणे' इति धातोरुपसर्गवशेन प्रख्यात्यर्थकात् पचाद्यचि अवयवशब्दः । कुवस्यावयवः प्रख्यापकशब्दः कुलावयव इति लभ्यत इति भावः । ननु पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह — अगुरूपोत्तमार्थ इति । गोत्रादवयुतं=मिश्रितम्-अनन्तरापत्यं, तदर्थमित्यपि भाष्ये स्पष्टम् । एवञ् पूर्वसूत्रे अपत्याधिकारबहिर्भूतेऽपि पारिभाषिकमेव गोत्र गृह्रत इति भाष्यस्वरसः । पौणिक्येति । पुणिकस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङि चाप् । एवं मौणिक्या । मनुष्यनामत्वे तन्नामिकाऽणः ष्यङ् ।
index: 4.1.79 sutra: गोत्रावयवात्
गोत्रशब्दोऽयमस्ति पारिभाषिकः ठपत्यं पौत्रप्रभृति गोत्रम्ऽ इति, अस्ति च लौकिकोऽपत्यमात्रवचनः, अस्ति च व्युत्पन्नः - गूयन्ते शब्द्यन्तेऽनेन स्वसन्तानप्रभवा इति प्रधानभूत आदिपुरुषः, स्वप्रभवस्यापत्यं सन्तानस्य संज्ञाकारी गोत्रमित्युच्यते, यथा - भरतः, रघुः, यदुरिति । अवयवशब्दोऽप्यस्ति एकदेशे यत्सम्बन्धादवयवतीति समुदाय उच्यते; अस्ति च पृथग्भावे, अवयुत्यानुवाद इत्यादाववपूर्वस्य यौतेः पृथग्भावेऽपि दर्शनात्; अस्ति चाप्रधाने - अवयवभूतोऽयमस्मिन् ग्राम इति । तत्र पारिभाषिके गोत्रे एकदेशे चावयवे च वचनमनर्थकमिदं स्यात्, कथम् ? पौत्रप्रभृत्यपत्यसमुदायो गोत्रं तदवयवश्चतुर्थादिस्तदपि गोत्रमेव, तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः ष्यङ् । अथ कस्मिश्चिन्महागोत्रे यान्यवान्तरगोत्राणि, यथा - भार्गवगोत्रस्य च्यवनादीनि, ते गोत्रावयवास्तेष्वगुरूपोतमार्थोऽयमारम्भः । यद्येवम्, सप्तर्षीणामगस्त्याष्टमानामष्टौ महागोत्राणि प्रवराध्याये पंठ।ल्न्ते तद्व्यतिरिक्तेभ्यः सर्वेभ्यः ष्यङः प्रसङ्गः; न चैतदिष्टम्, अगुरूपोतमेभ्योऽपि पुणिकादिभ्य एवेष्यते । पृथग्भाववचने त्ववयवशब्दे गोत्रादन्यवाचिनोऽणिञन्तअत्ष्यङ् इविधीयमाने पूर्वसूत्रे गोत्रग्रहणमनर्थकम् । अथाप्रधानवचनोऽवयवशब्दः, पारिभाषिकमेव गोत्रं प्रवराध्याये पाठाच्चाप्राधान्यम्, ततोऽयमर्थः स्यात् - येऽणिञन्ता गोत्रापत्यवाचिनः प्रवराध्याये न पठ।ल्न्ते तेभ्यः ष्यङिति । तत्रानृषिभ्यो गुरूपोतमेभ्यः पूर्वेणैव सिद्धः, अगुरूपोतमेभ्यस्तु संज्ञाकारिभ्य एवेष्यते, पारिभाषिके च गोत्रे संज्ञाकारित्वं विशेषो न लभ्यत इति । इहापि प्रसज्येत - तुषजको नाम कश्चितस्य गोत्रं स्त्री ठत इञ्ऽ तौषजकी, अपत्यमात्रे तु गोत्रे यद्येकदेशोऽवयवस्ततोऽपत्यसमुदायस्य पौत्रप्रभृत्यपत्यमवयव इति तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः । पृथग्भावे त्वपत्यादन्यवाचिन आहिच्छत्रादेरेव प्रसङ्गः । अप्रधाने त्वप्रधानापत्यवाचिनोऽणिञन्ताद् गुरूपोतमान्न सर्वत्रेष्यते, किन्तु संज्ञाकारिभ्यः, तत्रापि गोत्रे । व्युत्पन्ने गोत्रे एकदेशवचनोऽवयवशब्दो न सम्भवति, न हि येन पुरुषेण स्वसन्तानप्रभवा गूयन्ते तदवयवाद्धस्तपादादेर्गोत्रेऽणिञोऽसम्भवः । अथ गोत्रं च तदवयवश्चेति कर्मधारयस्तदा भार्गवादिगोत्रेषु येऽवान्तरव्यपदेशकारिणश्च्यवनादयस्तेभ्यः प्रसङ्गः । पृथग्भावे च ये संज्ञाकअरिभ्यः पृथग्भूतास्तुषजकादयस्तेभ्य एव स्यात् । अत एवमेषु पक्षेषु दोषसम्भवाद्व्युत्पन्नो गोत्रशब्दः, अप्रधानावचनोऽवयवशब्दः, कर्मधारयश्चसमासः । निपातनाद्विशेषणस्य परनिपातः, प्रवराध्यायेऽपाठाच्चाप्राधान्यम् । तदेतदाह - गोत्रावयवा गोत्राभिमता इति । गोत्रमित्येवमभिमताः, गोत्राभिधायिन इत्येव लोके प्रसिद्धाः, न पुनः प्रवराध्याये पठिता इत्यर्थः । काः पुनस्ता इत्यत्राह - कुलाख्या इति । कुलमाख्यायते आभिरिति कुलाख्याः, पुणिकादिभिर्हि कुलमाख्यायते - पुणिकावयंगोत्रेणेत्येवमादि । तत इति । तथोक्तविशेषणविशिष्टाभ्यः कुलाख्याभ्यः । अगुरूपोतमार्थ आरम्भ इति ।'गुरूपोतमयोः' इति निवृतम्, अन्यत्सर्वमनुवर्तत इति भावः । पौणिक्येत्यादिः । पुणिक-भुणिक-मुखरशब्देभ्यः ठत इञ्ऽ, तस्य ष्यङदेशः । ते क्रौड।लदिषु द्रष्टव्या इति । अवृत्कृतत्वातस्येति भावः ॥