संज्ञायाम्

4-1-72 सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ऊङ् कद्रुकमण्डल्वोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कद्रुकमण्डलुशब्दाभ्यां संज्ञायां विषये स्त्रियामूङ् प्रत्ययो भवति। अच्छन्दोऽर्थं वचनम्। कद्रूः। कमण्डलूः। संज्ञायामिति किम्? कद्रुः। कमण्डलुः॥

Siddhanta Kaumudi

Up

कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् ? कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संज्ञायाम्>> - संज्ञायाम् । कद्रुकमण्जल्वोरिति ऊङिति चानुवर्तते, स्त्रियामित्यधिकृतम् । तदाह — कद्रकमणाडल्वोरित्यादि । अच्छन्दोऽर्थमिति । पूर्वसूत्रे छन्दसीत्युक्तत्वाल्लोके संज्ञायामप्राप्तावयमारम्भः । कद्रूरिति । नागानां मातुः संज्ञा । एतच्च महाभारतादौ स्पष्टम् । कमण्डलूरिति । कस्यचिन्मृगस्य संज्ञा । अत एवचतुष्पाद्भ्यो ढ॑ञित्यत्र कामम्जलेय इत्युदाहरिष्यते । पात्रपर्यायस्तु नोदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात् ।

Padamanjari

Up