4-1-71 कद्रुकमण्डल्वोः छन्दसि प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ऊङ्
कद्रुशब्दात् कमण्डलुशब्दात् च छन्दसि विषये स्त्रियामूङ् प्रत्ययो भवति। क॒द्रूश्च॒ वै सु॑प॒र्णी च (तै०सं० ६.१.६.१)। मा स्म कमण्डलूं शूद्राय दद्यात्। छन्दसीति किम्? कद्रुः। कमण्डलुः॥ गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्॥ गु॒ग्गु॒लूः (शौ०सं० ४.३७.३)। म॒धूः (शौ०सं० ७.५६.२)। ज॒तूः॑ (मै०सं० ३.१४.६)। प॒त॒या॒लूः (शौ०सं० ७.११५.२)॥
उङ् स्यात् । कद्रूश्च वै कमण्डलूः ।<!गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् !> (वार्तिकम्) ॥ गुग्गुलूः । मधूः । जतूः । पतयालूः । अव्ययात्त्यप् <{SK1324}> ।<!आविष्ट्यस्योपसंख्यानं छन्दसि !> (वार्तिकम्) ॥ आविष्ट्यो वर्धते (आ॒विष्ट्यो॑ वर्धते) ॥
गुग्गुल्वादीनां च्छन्दसि व्यत्ययेन स्त्रीत्वम् । पतयालुशब्दः'स्पृहिगृहि' इत्यादिनाऽऽलुजन्तः ॥