संहितशफलक्षणवामादेश्च

4-1-70 संहितशफलक्षणवामादेः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ऊङ् ऊरूत्तरपदात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संहित शफ लक्षण वाम इत्येवमादेः प्रातिपदिकादूरूत्तरपदात् स्त्रियामूङ् प्रत्ययो भवति। अनौपम्यार्थ आरम्भः। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः॥ सहितसहाभ्यां चेति वक्तव्यम्॥ सहितोरूः। सहोरूः॥

Siddhanta Kaumudi

Up

अनौपम्यार्थं सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः ।<!सहितसहाभ्यां चेति वक्तव्यम् !> (वार्तिकम्) ॥ हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥

Laghu Siddhanta Kaumudi

Up

अनौपम्यार्थं सूत्रम्। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संहितशफलक्षणवामादेश्च>> - संहितशफ । संहित शफ लक्षण वाम एतत्पूर्वपदादप्यूरूत्तरपदादूङ् ऊरू यस्या इति विग्रहः । सैव शफोरूरिति । संहितोरूरेव शफोरूरित्यनेनोच्यत इत्यर्थः । शफशब्दं विवृणोतिशपौ खुराविति । यद्यपिशफं क्लीबे खुरः पुमा॑नित्यमरस्तथापिशफः खुरे गवादीना॑मिति [हेम] चन्द्रकोशात्पुंस्त्वमिति भावः । ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह — ताविवेति । यतः शफाविव, अत ऊरू शफशब्देनोच्येते इत्यर्थः । कुतस्तत्सादृश्यमित्यत आह — संश्लिष्टत्वादिति । तर्ह्रुपमानवाचिपूर्वपदत्वादेव सिद्धमित्यत आह — उपचारादिति । शफवद्वास्तवं संश्लिष्टत्वमवलम्ब्या शफत्वस्य आरोपादित्यर्थः । एवं च शफशब्दात्तत्सादृश्याऽप्रतीतेर्नोक्तदोष इति भावः । लक्षणोरूरिति । लक्षणौ ऊरू यस्या इति विग्रहः । ननु मार्दवादिगुणपर्यायस्य लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह — लक्षणशब्दादिति । लक्षणमनयोरस्तीति विग्रहे लक्षणशब्दादर्शाअदिभ्योऽजित्यच्प्रत्यय इत्यर्थः । तथाच लक्षणयुर्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः । वामोरूरिति । वामौ=सुन्दरौ ऊरू यस्या इति विग्रहः ।वामौ वल्गुप्रतीपौ द्वौ॑ इत्यमरः ।सहितेति । 'सहित' 'सह' आब्यां परो य ऊरुशब्दस्तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः । ननु संहितग्रहणेनैव एकदेशविकृतन्यायेन सिद्धे पुनः सहितग्रहणं व्यर्थमित्यत आह — हितेनेति । हितेन सहेति विग्रहेतेन सहे॑ति बहुव्रीहौवोपसर्जनस्ये॑ति सभावे सहितशब्द इत्यर्थः । ननु सहशब्दस्य विद्यमानवचनत्वे सहोरूरित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह — सहेते इति ।रतिकालिकमर्दन॑मिति शेषः । विद्यमानवचनत्वेऽपि सहशब्दस्य न वैयथ्र्यामित्याह-यद्वेति । अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयथ्र्यमिति भावः ।

Padamanjari

Up

संहितशब्दः सहितपर्यायः, लक्षणशब्दोऽर्शाअद्यच्प्रत्ययान्तः, वामशब्दः शोभनपर्यायः । सहितसहाभ्यां चेति ।'समो वा हितततयोः' इति मलोपे सति यः सहितशब्दस्तस्य संहितग्रहणेनैव सिद्धम्, एकदेशविकृतस्यानन्यत्वात् । यस्तु सह हितेन वर्तते इति व्युत्पन्नः सहितशब्दस्तस्येदं ग्रहणमित्याहुः । सहोरूरिति । सहेते इति सहौ, तादृशावूरू यस्या इत्यर्थः । विद्यमानस्य वा सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥