ऊरूत्तरपदादौपम्ये

4-1-69 ऊरूत्तरपदात् औपम्ये प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ऊङ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऊरूत्तरपदात् प्रातिपदिकादौपम्ये गम्यमाने स्त्रियामूङ् प्रत्ययो भवति । कदली — स्तम्भोरूः। नागनासोरूः। करभोरूः। औपम्य इति किम्? वृत्तोरुः स्त्री॥

Siddhanta Kaumudi

Up

उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥

Laghu Siddhanta Kaumudi

Up

उपमानवाची पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात्। करभोरूः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऊरूत्तरपदादौपम्ये>> - ऊरुत्तर । ऊरुः-उत्तरपदं यस्येति बहुव्रीहिः । प्रातिपदिकादित्यनुवर्तते । उत्तरपदेत्यनेन पूर्वपदमाक्षिप्तम्, औपम्ये इति तत्रान्वेति । उपमीयते अनयेत्युपमा=उपमानम्, उपमैव औपम्यं, स्वार्थे ष्यञ् । तदाह — उपमानवाचीति । करभोरूरिति । करभाविव ऊरू यस्या इति विग्रहः ।मणिबन्धादाकनिष्ठं करस्य करभो बहिः॑ इत्यमरः । करभोरुत्वस्याऽजातित्वादप्राप्तौ वचनम्, ऊर्वाकृतेः करभसदृशपुरुषोरुसाधारणत्वेन करभसादृश्यघटितकरभोरुत्वस्य आकृतिग्राह्रत्वाऽभावात्, असर्वलिङ्गत्वाद्यभावाच्च । उपमानवचीति किम् । वृत्तोरुः । करभोपमोरुरित्यादौ नोङ्, करभशब्दस्य करभसदृशेऽवृत्त्या उपमानवाचित्वाऽभावात् ।

Padamanjari

Up

उपमीयतेऽनयेत्युपमा, तद्भाव औपम्यम् । कथं'विचकरे च करेणुकरोरुभिः' इति ? निरङ्कुशाः कवयः;'करेण वरोरुभिः' इति पाठः - करेण विचकरे वरोरुभिरिति ॥