4-1-68 पङ्गोः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् जातेः ऊङ्
index: 4.1.68 sutra: पङ्गोश्च
पङ्गुशब्दात् स्त्रियां ऊङ् प्रत्ययो भवति। पङ्गूः। श्वशुरस्य उकाराकारलोपश्च वक्तव्यः। श्वश्रूः।
index: 4.1.68 sutra: पङ्गोश्च
पङ्गूः ।<!श्वशुरस्योकाराकारलोपश्च !> (वार्तिकम्) ॥ चादूङ् । पुंयोगलक्षणस्य ङीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादयः । श्वश्रूः ॥
index: 4.1.68 sutra: पङ्गोश्च
पङ्गूः। श्वशुरस्योकाराकारलोपश्च (वार्त्तिकम्) । श्वश्रूः॥
index: 4.1.68 sutra: पङ्गोश्च
पङ्गोश्च - पङ्गोश्च ।ऊ॑ङिति सूत्रशेषः । भग्नपादत्वं पङ्गुत्वं न जातिः, आसीने शयाने च आकृत्या दुग्र्रहत्वात्, एकस्या व्यक्तौविकलपादोऽयं पङ्गु॑रिति पङ्गुत्वस्योपदेशेऽपि व्यक्त्यन्तरेषु आसनशयनाद्यस्थेषु तस्य दुग्र्रहत्वात्, गोत्रचरणानन्तर्भावाच्च । ततश्च 'ऊङुतः' इत्यप्राप्तौ वचनमिदम् ।आशुरस्येति । वृत्त्यादौ पठितमिदम् । चकारादूङनुकृष्यते । आशुरस्य स्त्री इत्यर्थे पुंयोगलक्षणे ङीषि प्राप्ते तदपवाद ऊङ्, तत्संनियोगेन रेफादकारस्य शकारादुकारस्य लोपश्चेत्यर्थः । नच वकारादकारस्य लोपः शङ्क्यः,अन्त्यबाधेऽन्त्यसदेशस्ये॑ति वचनात् ।यस्येति चे॑ति तु नात्र भवति, ईकारे तद्धिते च तद्विधानात् । ननु आशूरित्यत्र कथं स्वादयः,ङ्याप्प्रातिपदिका॑दित्यधिकृत्य तद्विधेः, अस्य च ङ्याबन्तत्वाऽभावात्, ऊङन्तस्य च प्रत्ययान्तत्वेन प्रातिपदिकत्वाऽभावादित्यत आह — लिङ्गविशिष्येति ।प्रातिपदिकग्रहणे लिङ्गविशिष्यस्यापि ग्रहण॑मिति परिभाषयेत्यर्थः । वस्तुतस्तु आशुरस्येति वचनममूलकमेव, भाष्येऽदृष्टत्वात्,ङ्याप्प्रातिपदिका॑दिति सूत्रस्थभाष्यविरोधाच्च । तत्र हिङ्याप्प्रातिपदिका॑दित्यत्र ऊहोऽपि ग्रहणं कर्तव्यमित्याक्षिप्य उवर्णान्तादूङ् विधीयते । तत्र सवर्णदीर्घे एकादेशे कृते पूर्वान्तत्वेन प्रातिपदिकत्वलाभादेव सिद्धमित्युक्तम् । यदि ह्रुक्तरीत्या आश्रूशब्दो व्युत्पाद्यते तर्हि रेफादकारस्य लुप्तत्वेन एकादेशाऽप्रसक्तेस्तदसङ्गतिः स्पष्टैव । तथाच आश्रूरित्यव्युत्पन्नं प्रातिपदिकमिति शब्देन्दुशेखरे स्पष्टम् ।
index: 4.1.68 sutra: पङ्गोश्च
श्वशुरस्येति । पुंयोगलक्षणस्य ङीषोऽपवाद ऊङ् विधीयते,'शावशेराप्तौ' शुशब्देऽश्नोतेरुरन् प्रत्ययो भवति । किमिदं शु इति ? आशुशब्दस्यायमादिलोपो निपातितः । आश्वाप्तव्यः श्वशुरः, तस्य स्त्री श्वश्रूः,'श्वशुरः श्वववा' इत्यदिनिपातनाद्विभक्त्यादि प्रातिपदिककार्यं भवति ॥