पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च

4-1-64 पाककर्णपर्णपुष्पफलमूलवालोत्तरपदात् च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् जातेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पाकाद्युत्तरपदाज् जातिवाचिनः प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति। स्त्रीविषयत्वादेतेषां पूर्वेणाप्राप्तः प्रत्ययो विधीयते। ओदनपाकी। शङ्कुकर्णी। शालपर्णी। शङ्खपुष्पी। दासीफली। दर्भमूली। गोबाली। पुष्पफलमूलोत्तरपदात् तु यतो नेष्यते तदजादिषु पठ्यते। <<सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात्>> (ग०सू० ३७)। <<संभस्त्राजिनशणपिण्डेभ्यः फलात्>> (ग०सू० ३५)। <<मूलान्नञः>> (ग०सू० ३९) इति॥

Siddhanta Kaumudi

Up

पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष् स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढा एते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च>> - पाककर्ण ।जातेरस्त्रीविषया॑दिति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — स्त्रीविषयादपीति । नियतस्त्रीलिङ्गादपीत्यर्थः । नियतस्त्रीलिङ्गत्वात्पूर्वेणाऽप्राप्तिरिति भावः । जातिवाचित्वं दर्शयितुमाह — ओषधिविशेष रूढा इति । अवयवव्युत्पत्तिरहिता इत्यर्थः ।

Padamanjari

Up

स्त्रीविषयत्वादेतेषामिति । पूर्वत्र समानायामाकृतौ यदस्त्रीविषयमित्याश्रयणान्निमितभेदेन नानालिङ्गानामेषां न सिध्यतीति भावः । ओदनपाकादयः संज्ञाशब्दा यथाकथञ्चिद्व्युत्पाद्याः ॥