4-1-62 सखीअशिश्वी इति भाषायाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.62 sutra: सख्यशिश्वीति भाषायाम्
सखी अशिश्वी इत्येतौ शब्दौ ङीषन्तौ भाषायां निपात्येते। सखीयं मे ब्राह्मणी। न अस्याः शिशुरस्तीति अशिश्वी। भाषायाम् इति किम्? सखा सप्तपदी भव। अशिशुम् इव मामयं शिशुरभिमन्यते।
index: 4.1.62 sutra: सख्यशिश्वीति भाषायाम्
इति शब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधेनवो धुनयन्तामशिश्वीः ॥
index: 4.1.62 sutra: सख्यशिश्वीति भाषायाम्
सख्यशिश्वीति भाषायाम् - सख्यशिआई । सखिशब्दादशिशुशब्दाच्च स्त्रियां ङीष् निपात्यते भाषायाम् । सौकिकप्रयोगो-भाषा । तर्हि वेदे नैव स्यादित्यत आह — इतिशब्द इति । 'प्रकारे' इत्यनन्तरं 'वर्तते' इति शेषः । प्रकारः=सजातीयता । भाषायामित्यस्येति । सचइति॑शब्दो भाषायामित्यस्यानन्तरं संनिवेश्यते इत्यर्थः । ततश्च भाषायां वेदे चेति फलितम् । नन्वेवं सति भाषायामिति व्यर्थमित्यत आह — तेनेति । भाषाग्रहणेन भाषायां सर्वत्र भवति, वेदे तु क्वचिदिति लभ्यत इत्यर्थः । सखीति । सखिशब्दान्ङीषियस्येति चे॑ति खकारादिकारस्य लोपः । भाषायां किम् । 'सखा सप्तपदा भव' अशिआईति । न विद्यते शिशुर्यस्या इति विग्रहः । अशिशुशब्दान्ङीषि उकारस्य यण् ।अशिआई शिशुना विना॑ इत्यमरः । छन्दस्यपि क्वचिदित्यस्योदाहरणमाह — आ धेनवो धुनयन्तामशिआईरिति । अशिआईशब्दाज्जसिदीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः ।
index: 4.1.62 sutra: सख्यशिश्वीति भाषायाम्
भाषायामित्युच्यते, तत्रैतन्न सिध्यति - सखी सप्तपदी भव, आ धेनवो धुनयन्तामशिश्वीरिति ? नैष दोः; इतिकरणोऽत्र क्रियते, स भिन्नक्रमो भाषायामित्यस्यानन्तरं द्रष्टव्यः, स च प्रकारे वर्तते, तेन च्छन्दस्यपि क्वचिद्भविष्यति । भाषाग्रहणं तु नित्यार्थम् ॥