4-1-61 वाहः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.61 sutra: वाहः
ङीषेव स्वर्यते, न ङीप्। वहेरयं ण्विप्रत्ययान्तस्य निर्देशः। सामार्थ्यात् तदन्तनिधेर्विज्ञानम्। बहन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति। दित्यौही। प्रष्ठौही।
index: 4.1.61 sutra: वाहः
वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न ङीप् । दित्यवाट् च मे दित्यौही च मे ॥
index: 4.1.61 sutra: वाहः
वाहः - वाहः । 'वाह' इति पञ्चम्यन्तं प्रातिपदिकादित्यनुवृत्तस्य विशेषणं, तदन्तविधिः । तदाह — वाहन्तादिति । ङीषेवानुवर्तत इति । 'अन्यतो ङीष् इत्यत' इति शेषः । न ङीबिति । 'दिक्पूर्वपदात्' इति पूर्वसूत्रे संनिहितमपि ङीब्ग्रहणमिह नानुवर्तते, अस्वरितत्वादित्यर्थः । स्वरे विशेषः । दित्यौहीति । गवां तावत् षण्मासात्मकमेकैकं वयः ।गर्भाश्च मे वत्साश्च मे॑ इत्यनुवाके अनुक्रान्तानि वयांसि । तत्र तृतीयं वयो दित्यशब्देनोच्यते, इति यजुर्वेदभाष्ये, भवस्वामिधूर्तस्वाम्यादिकृतकल्पभाष्येषु च स्पष्टम् । दित्यं वहतीति विग्रहेच्छन्दसि सहः॑,वहश्चे॑ति ण्विः, उपधावृद्धिः, उपपदसमासः । दित्यवाह्शब्दात् ङीष् ।वाह ऊठ् । 'एत्येधत्यूठ्सु ' इति वृद्धिः, दित्यौहीति रूपम् । ण्विप्रत्ययस्य छन्दोमात्रविषयत्वाद्वेदवाक्यमुदाहृतम् । सोके तु वाहयतेः क्विपि, वाह्शब्दात् ङीषि, दित्यौहीति रूपमस्ति । वैदिकप्रक्रियायामुपन्यसनीयमेप्येतत्सूत्रमेतदर्थमिहोपन्यस्तम् ।
index: 4.1.61 sutra: वाहः
सामर्थ्यादिति । कर्मण्युपपदे वहेर्ण्विधानात्केवलस्य वाहः सम्भवो नास्तीत्येतत्सामर्थ्यम् । दित्यौहीति ।'च्छन्दसिसहः' ,'वहश्च' इति ण्विः, उपधावृद्धिः, ङीषि'वाह ऊठ' , तत्र सम्प्रसारणमित्यनुवृतेः'सम्प्रसारणाच्च' इति पूर्वरूपत्वम्, ठेत्येधत्यूठ्सुऽ इति वृद्धिः ॥