4-1-60 दिक्पूर्वपदात् ङीप् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.60 sutra: दिक्पूर्वपदान्ङीप्
स्वाङ्गाच् च उपसर्जनातित्येवमादिविधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते। यत्र ङीष् विहितस् तत्र तदपवादः। दिक्पूर्वपदात् प्रातिपदिकात् ङीप् प्रत्ययो भवति। स्वरे विशेषः। प्राङ्मुखी, प्राङ्मुखा। प्राङ्नासिकी, प्राङ्नासिका। इह न भवति, प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघना इति।
index: 4.1.60 sutra: दिक्पूर्वपदान्ङीप्
दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ॥
index: 4.1.60 sutra: दिक्पूर्वपदान्ङीप्
दिक्पूर्वपदान्ङीप् - दिक्पूर्वपदान्ङीप् । दिक्पूर्वपदं यस्येति विग्रहः । स्वाङ्गादित्यनुवर्तते । प्रातिपदिकादिति च ।॒अन्यतो ङीषि॑त्यतो ङीषित्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — दिक्पूर्वेत्यादिना । प्राङ्मुखीति । प्राक् मुखं यस्या इति विग्रहः । ङीषो ङीब्विधेः फलमाह — आद्युदात्तं पदमिति । ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणाद्युदात्तत्वम् । ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वं स्यादित्यर्थः । नच स्वतन्त्रो ङीबेव विधीयतामिति वाच्यं, तथा सति प्राग्गुल्फेत्यादावपिअसंयोगोपधा॑दिति निषेधं बाधित्वा ङीप्प्रसङ्गात् । ङीषो ङीबादेशविधौ तुस्वाङ्गाच्चोपसर्जनादसंयोगोपधा॑दिति विहितङीषो ङीब्विधानान्न दोषः ।असंयोगोपधा॑दित्यस्यानुवृत्त्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः ।
index: 4.1.60 sutra: दिक्पूर्वपदान्ङीप्
दिक्पूर्वपदान्ङीषोऽनुदातत्वम्,'स्वाङ्गाच्च' इत्यादिना विहितस्य ङीष एवास्मिन्विषयेऽनुदातत्वं वक्तव्यम्, ङीब्विधाने ह्यन्यत्रापिङीष्विषयान्ङीप्प्रसङ्गः । अपूर्वे हि ङीपि विधीयमाने प्राग्गुल्फा, प्राग्जघनेति ङीष्विषयादन्यत्रापि ङीप्प्राप्नोति; ङीषः प्रतिषेधाभावात् ? इत्यस्मिन्पूर्वपक्षे इदमाह - विधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते इति । तत्र विधिविषयापेक्षायाः फलं दर्शयति - यत्र ङीष्विहित इति । स्वरे बिशेष इति । ङीपः पित्वादनुदातत्वं भवति, ङीषस्तु प्रत्ययाद्यौदातत्वप्रसङ्गः । प्राङ्मुखेति । ङीपा मुक्ते'स्वाङ्गाच्चो पसर्जनात्' इति ङीषपि न भवति, कथम् ? उक्तमेतत् -'यत्रोत्सर्गापवादौ द्वावपि विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते' इति । प्रतिषेधापेक्षायाः फलं दर्शयति - इह न भवतीति । एवं च कृत्वा वाक्यभेदः कर्तव्यः - दिक्पूर्वपदादसंयोगोपधस्वाङ्गान्तान्नासिकाद्यन्तान्ङीष् भवति; क्रोडादिबह्वजन्तातु नेति अपरः कल्पः, अत्र ङीषनुवर्तते, तस्य दिक्पूर्वपदादिति पञ्चम्या षष्ठी प्रकल्प्यते, दिक्पूर्वपदादुतरस्य ङीषो ङीबादेशो भवतीत्यर्थः । तेन यत्र ङीष् तत्रैव ङीबिति सिद्धम् । एवं चोतरत्र ङीषेव स्वर्यत इत्युपपन्नं भवति ॥