4-1-59 दीर्घजिह्वी च छन्दसि प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
दीर्घजिह्वी इति छन्दसि विषये निपात्यते। संयोगोपधत्वादप्राप्तो ङीष् विधीयते। दीर्घजि॒ह्वी॑ वै॑ दे॒वा॑नां॒ ह॒व्यम॑वा॒ले॒ट् (तु० — मै०सं० ३.१०.६)। चकारः संज्ञानुकर्षणार्थः। दीर्घजिह्वीति निपातनं नित्यार्थम्॥
संयोगोपधत्वादप्राप्ते ङीष् विधीयते । आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट् ॥
निपातनं नित्यार्थमिति ।'दीर्घजिह्वात्' इत्युच्यमाने प्रकृतस्य ङीषो विकल्पितत्वादिहापि विकल्पो विज्ञायते ॥