4-1-58 नखमुखात् सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् स्वाङ्गात् च उपसर्जनात् असंयोगोपधात् न
index: 4.1.58 sutra: नखमुखात् संज्ञायाम्
नखमुखान्तात् प्रातिपदिकात् संज्ञायाम् विषये स्त्रियां ङीष् प्रत्ययो न भवति। शूर्पणखा। वज्रनखा। गौरमुखा। कालमुखा। संज्ञायाम् इति किम्? ताम्रनखी कन्या। चन्द्रमुखी।
index: 4.1.58 sutra: नखमुखात् संज्ञायाम्
ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् ? ताम्रमुखी कन्या ॥
index: 4.1.58 sutra: नखमुखात् संज्ञायाम्
न ङीष्॥
index: 4.1.58 sutra: नखमुखात् संज्ञायाम्
नखमुखात् संज्ञायाम् - नखमुखात् । नखमुखादिति । समाहारद्वन्द्वः । शेषपूरणेन सूत्रे व्याचष्टे — ङीष् नेति ।स्वाङ्गाच्चे॑ति प्राप्तस्य निषेधोऽयम् । शूर्पणखेति । राक्षसीविशेषस्य नाम । शूर्पाणीव कररूहा यस्या इत्यस्वपदविग्रहः, संज्ञात्वेन नित्यसमासत्वात् ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । केवलयौगिकत्वे तु ङीष् भवत्येव । णत्वं तु न । गौरमुखेति — कस्याश्चिन्नाम । ओतं मुखं यस्या इत्यस्वपदविग्रहः ताम्रमुखीति । यौगिकोऽयम् । ताम्रं मुखं यस्या इति विग्रहः ।
index: 4.1.58 sutra: नखमुखात् संज्ञायाम्
शूर्पणखेति ।'पूर्वपदात्संज्ञायायामगः' इति णत्वम् । एवं च शूर्पणखा वा राक्षसी शूर्पनखी वा । यदि योगमात्रं न संज्ञा - शूर्पनखी, संज्ञायाम् - शूर्पणखा; न पुनः शूर्पणखीति णत्वङीषो समावेशः साधुः ॥