सहनञ्विद्यमानपूर्वाच्च

4-1-57 सहनञ्विद्यमानपूर्वात् च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् स्वाङ्गात् च उपसर्जनात् असंयोगोपधात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<स्वाङ्गाच्चोपसर्जनाद्०>> ४.१.५४ इति <<नासिकोदरौष्ठजङ्घा०>> ४.१.५५ इति च प्राप्तो ङीष् प्रतिषिध्यते। सह नञ् विद्यमान इत्येवंपूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। सकेशा। अकेशा। विद्यमानकेशा। सनासिका। अनासिका। विद्यमाननासिका॥

Siddhanta Kaumudi

Up

सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सहनञ्विद्यमानपूर्वाच्च>> - सहनञ् । त्रिकपूर्वादिति ।स्वाङ्गा॑दिति शेषः । सकेशेति । सह केशा यस्या इति बहुव्रीहिः । सहशब्दो विद्यमानवचनः ।वोपसर्जनस्ये॑ति सभावविकल्पः ।स्वाङ्गाच्चे॑ति प्राप्तस्य निषेधः । 'नासिकोदर' इति ङीष्विकल्पोऽप्यनेन बाध्यत इत्युक्तं स्मारयितुमुदाहरति — विद्यमाननासिकेति । विद्यमाना नासिका यस्या इति बहुव्रीहिः ।

Padamanjari

Up

पूर्वग्रहणमकृत्वा'सहनञ्विद्यमानेभ्यः' इत्युच्यमाने सहादिभ्यः परं यत्स्वाङ्गं तदन्तान्ङीष् न भवतीत्यर्थो भवति, ततश्चेह प्रतिषेधः प्रसज्येत - विद्यमानं मुखमस्य विद्यमानमुखः, कल्याणो विद्यमानमुखोऽस्याः कल्याणविद्यमानमुखीति, भवति ह्यएतद् यथोक्तविशेषणम्; इह च न स्याद् - विद्यमानकल्याणमुखेति, न ह्यत्र यथोक्तं विशेषणमस्ति, तस्मात्पूर्वग्रहणम् ॥