न क्रोडादिबह्वचः

4-1-56 न क्रोडादिबह्वचः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् स्वाङ्गात् च उपसर्जनात् असंयोगोपधात्

Kashika

Up

index: 4.1.56 sutra: न क्रोडादिबह्वचः


स्वाङ्गातिति ङिष् प्राप्तः प्रतिषेध्यते। क्रोडाद्यन्तात् बह्वजन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। कल्याणक्रोडा। कल्याणाखुरा। कल्याणोखा। कल्याणबाला। कल्याणशफा। कल्याणगुदा। कल्याणघोणा। कल्याणनखा। कल्याणमुखा। क्रोडादिराकृतिगणः। सुभगा। सुगला। बह्वचः खल्वपि पृथुजघना। महाललाटा।

Siddhanta Kaumudi

Up

index: 4.1.56 sutra: न क्रोडादिबह्वचः


क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजघना ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.56 sutra: न क्रोडादिबह्वचः


क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष्। कल्याणक्रोडा। आकृतिगणोऽयम्। सुजघना॥

Balamanorama

Up

index: 4.1.56 sutra: न क्रोडादिबह्वचः


न क्रोडादिबह्वचः - न क्रोडादिबह्वचः । क्रोडा आदिर्यस्येति, बहवोऽचो यस्येति च विग्रहः । क्रोडादिश्च बह्वच्चेति समाहारद्वन्द्वः । क्रोडादेरिति । क्रोडादिर्गणः, बह्वच्च यत्स्वाङ्गं तदन्तान्ङीष् नेत्यर्थः । कल्याणक्रोडेति । कल्याणी क्रोडा यस्या इति विग्रहः । 'स्त्रियाः पुंवत्' इति कल्याणशब्दस्य पुंवत्त्वम् । अआआनामिति । हरदत्तादिमते क्रोडाशब्दो नित्यस्त्रीलिङ्गः । उपसर्जनह्रस्वत्वेऽदन्ततयास्वाङ्गाच्चोपसर्जना॑दिति प्राप्तो ङीष् निषिध्यते । अमरस्तुन ना क्रोडं भुजान्तर॑मिति स्त्रीत्वं नपुंसकत्वं चाह । क्वचित् कोशे पुंस्त्वमपि दृश्यते । क्रोडादिगणे क्रोड इति प्रातिपदिकं पठते । एवं च लिङ्गत्रयेऽपि उदाहरणं निर्बाधम् । आकृतिणोऽयमिति ।क्रोडादि॑रिति शेषः । सुजघनेति — बह्वच उदाहरणम् । सुशोभनं जघनं यस्या इति विग्रहः ।

Padamanjari

Up

index: 4.1.56 sutra: न क्रोडादिबह्वचः


कल्याणक्रोडेति । अश्वानामुरः क्रोडा, स्त्रीलिङ्गोऽयम् । तत्र बहुव्रीहौ पूर्वपदस्य पुंवद्भावः, उतरपदस्योपसर्जनह्नस्वत्वम् । अल्याणनखेति । अग्रन्थोऽयम्;'नखमुखात्संज्ञायाम्' इति प्रतिषेधात्, असंज्ञायां ङीष इष्टत्वात्, तस्मात् कल्याणेखेति पाठः । उखेति हि पठ।ल्ते -'क्रोडा बालसुरोखाः शफो गुदं भगगलौ च' इति ॥