अस्वाङ्गपूर्वपदाद्वा

4-1-53 अस्वाङ्गपूर्वपदात् व प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् क्ताद् बहूव्रीहेः च अन्तोदात्तात्

Kashika

Up

index: 4.1.53 sutra: अस्वाङ्गपूर्वपदाद्वा


अन्तोदात्तात् क्तातिति अनुवर्तते। अस्वाङ्गपूर्वपदादन्तोदात्तात् क्तान्ताद् बहुव्रीहेः स्त्रियां वा ङीष् प्रत्ययो भवति। पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। शार्ङ्गजग्धी, शार्ङ्गजग्धा। पलाण्डुभक्षिती, पलाण्डुभक्षिता। सुरापीती, सुरापीता। अस्वाङ्गपूर्वपदातिति किम्? शङ्खभिन्नी। ऊरुभिन्नी। अन्तोदात्तातित्येव, वस्त्रच्छन्ना। वसनच्छन्न। बहुलं संज्ञाछन्दसोरिति वक्तव्यम्। प्रवृद्धविलूनी, प्रवृद्धविलूना। प्रवृद्धा च असौ विलूना चेति। न अयं बहुव्रीहिः।

Siddhanta Kaumudi

Up

index: 4.1.53 sutra: अस्वाङ्गपूर्वपदाद्वा


पूर्वेण नित्यं प्राप्ते विकल्पोऽयम् । सुरापीती । सुरापीता । अन्तोदात्तात्किम् ? वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ॥

Balamanorama

Up

index: 4.1.53 sutra: अस्वाङ्गपूर्वपदाद्वा


अस्वाङ्गपूर्वपदाद्वा - अस्वाङ्गपूर्वपदाद्वा । स्वाङ्गलक्षणमुत्तरसूत्रे वक्ष्यते । अस्वाङ्गं यत् पूर्वपदं तस्यात् परं यत् क्तान्तं तदन्ताद्बहुव्रीहेर्ङीष् वा स्यादिति सूत्रार्थः । यद्यपिअस्वाङ्गं पूर्वपदं यस्य तस्मात् क्तान्तबहुव्रीहे॑रित्यपि व्याख्यातुं शक्यं, तथापि उत्तरसूत्रेऽस्वाङ्गपूर्वपदादित्यनुवृत्तस्य कर्मधारयसमासाश्रयणादिहापि तथा व्याख्यानमुचितम् । ननु बहुकृता, अकृता इत्यादावपि अस्वाङ्गपूर्वपदक्तदान्तबहुव्रीहित्वान्ङीष्विकल्पः स्यादित्याशङ्क्याह — पूर्वेणेति ।बहुव्रीहेश्चान्तोदात्ता॑दिति पूर्वसूत्रेण नित्यं ङीषि प्राप्ते तद्विकल्पोऽत्र विधीयत इत्यर्थः । एवं च जातिपूर्वादित्यस्य अन्तोदात्तादित्यस्य चेहापि संबन्धाद्बहुकृतेत्यादौ नातिप्रसङ्ग इति भावः । सुरापीति सुरापीतेति । सुरा पीता ययेति विग्रहः । ऊरुभिन्नीतिवत् पूर्वनिपातः । अन्तोदात्तात्किमिति ।बहुव्रीहेश्चे॑त्यत्र श्रुतम्,अस्वाङ्गपूर्वपदाद्वा॑ इत्यत्रानुवृत्तमपि अन्तोदात्तादित्येतत्किमर्थमिति प्रश्नः । वस्त्रच्छन्नेति । ऊरुभिन्नीतिवत्पूर्वनिपातः । अथ वस्त्रच्छन्नेत्यत्र 'जातिकालसुखादिभ्यः' इत्यन्तोदात्तत्वमाशङ्क्य निरस्यति — अनाच्छादनादिति । तथाच बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरे शेषनिघातेन अनुदात्तान्तमेतदिति भावः । अत एवेति ।अस्वाङ्गपूर्वपदा॑दित्यनेनबहुव्रीहेश्चे॑ति पूर्वसूत्रेण च वस्त्रच्छन्नेत्यत्र वैकल्पिको नित्यश्च ङीष् नेत्यर्थः । अन्तोदात्तत्व एवोभयोः प्रवृत्तेरिति भावः ।

Padamanjari

Up

index: 4.1.53 sutra: अस्वाङ्गपूर्वपदाद्वा


शार्ङ्गजग्धीत्यादि । शार्ङ्ग जग्धमनया, पलाण्डुर्भक्षितोऽनयेति विग्रहः । शार्ङ्गादिरभक्ष्यजातिः । सर्वत्र'जातिकालसुखादिभ्यः' इत्यन्तोदातत्वम् । वस्त्रच्छन्नेति ।'च्छद अपवारणे' चुरादिः,'वा दान्तशान्त' इत्यादिनो च्छन्न शब्दो निपातितः, अत्र ठनाच्छादनात्ऽ इति प्रतिषेधात्पूर्वपदप्रकृतिस्वरत्वमेव भवति । प्रवृद्धा चेत्यादिना विग्रहविशेषेण तत्पुरुषं दर्शयति ॥ स्वाङ्गाच्चोपसर्जनादसंयोगोपघात् । अतिकेशीति । अतिक्रान्ता केशानिति तत्पुरुषः, ठेकविभक्ति चऽ इति केशशब्दस्योपसर्जनत्वम् । अशिखेति । असत्युपसर्जनग्रहणेऽत्रैव प्राप्नोति, न मूलोदाहरणेषु; ठनुपसर्जनात्ऽ इत्यधिकारात् । अथ बहुव्रीह्यधिकारादत्र न भविष्यतीत्युच्येत ? अतिकेशीत्यत्रापि तर्हि न स्यात् । ठङ्गात्रऽ इत्यादिभाष्येऽनुक्तमप्येतत्प्रयोगबाहुल्याद् वृत्तिकारेणोक्तम् । यद्यत्र स्वमङ्गं स्वाङ्गं गृह्यएत - श्लक्ष्णमुखा शाला, अत्रापि प्राप्नोति, मुखस्य शालाङ्गत्वात् ; दीर्घकेशी रथ्येत्यत्र च न स्यात्, केशानां रथ्याङ्गत्वाभावात् ? तदव्याप्त्यतिव्याप्तिपरिहारार्थं स्वाङ्गं परिभाष्यते - अद्रवमिति । तत्र प्राणिस्थं स्वाङ्गमित्यनेन श्लक्ष्णमुखा शालेत्यत्र न भवति । एवमपि बहुकफा अत्र प्राप्नोति ? तदर्थमाह - अद्रवमिति । द्रवतीति द्रवम्, ततोऽन्यदद्रवम् । एवमपि बहुज्ञाना - अत्रापि प्राप्नोति ? अत आह - मूर्तिमदिति । असर्वगतद्रव्यपरिमाणा मूर्तिः, असर्वगतानि यानि द्रव्याणि तेषां यत्परिमाणं ह्रस्वत्यादि सा मूर्तिः; स्पर्शवद् द्रव्यपरिमाणं मूतिरित्यन्ये, सा यस्यास्ति तन्मूर्तिमत् । एवमपि बहुशोफा अत्र प्राप्नोति ? इत्यत आह - अविकारजमिति । विकारःउवातादिवैषम्यम्, ततो यज्जायते तन्न भवतीत्यविकारजम् । शोफस्तु श्वयथुसंज्ञको विकारजः । यदि प्राणिस्थं स्वाङ्गम्, रथ्यादिपरिगतानां केशानां स्वाङ्गत्वं न स्यात्, सम्प्रत्यप्राणिस्थत्वात्, ततश्च दीर्घकेशी रथ्येति न सिद्ध्यत्यत आह - अतत्स्थमिति । सम्प्रत्यप्राणिस्थमपि कदाचित्प्राणिनि दृष्ट्ंअ चेतदपि स्वाङ्गं भवत्येवेत्यर्थः । एवमपि प्रतिमावयवानां मुखादीनां स्वाङ्गत्वं न प्राप्नोति, अप्राणिस्थत्वात्, ततश्च दीर्घमुखी प्रतिमेत्यत्र न सिद्ध्यति ? तत्राह -तेन चेदिति । अतत्स्थमित्यनुषङ्गः । अप्राणिस्थमपि मुखादि स्वाङ्गं तेन चेन्मुखादिना तदप्राणिद्रव्यं तथा युतं भवति यथा प्राणिद्रव्यमित्यर्थः । अन्येषां पाठः - तस्य चेततथा युतमिति । तत्रार्थः - अप्राणिस्थमपि मुखादि स्वाङ्गं तस्य चेदप्राणिनः तन्मुखादि तथा युतं भवति, तादृशं संस्थानं भवति यादृशं संस्थानं प्राणिन इत्यर्थः ॥