4-1-52 बहूव्रीहेः च अन्तोदात्तात् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् क्ताद्
index: 4.1.52 sutra: बहुव्रीहेश्चान्तोदात्तात्
क्तातित्येव। बहुव्रीहिर्योऽन्तोदात्तः, तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। स्वाङ्गपूर्वपदो बहुव्रीहिरिह उदाहरणम्। अस्वाङ्गपूर्वपदाद् विकल्पं वक्ष्यति। शङ्ख्यभिन्नी। ऊरुभिन्नी। गललोत्कृत्ती। केशलूनी। बहुव्रीहेः इति किम्? पादपतिता। अन्तोदात्ताज् जातप्रतिषेधः। दन्तजाता। स्तनजाता। पाणिगृहीत्यादीनामर्थविशेषे। पाणिगृहीती भार्या। यस्य अस्तु कथञ्चित् पाणिर्गृह्यते पाणिगृहीता सा भवति। अबहुनञ्सुइआलसुखादिपूर्वादिति वक्तव्यम्। बहुकृता। नङ् अकृता। सु सुकृता। काल मासजाता। संवत्सरजाता। सुखादि सुखजाता। दुःखजाता। जातिकालसुखाऽदिभ्योऽनाच्छादनात् क्तोऽकृतमित. प्रतिपन्नाः 6.2.170 इत्येवमादिना भौव्रीहेरन्तोदात्तत्वम्।
index: 4.1.52 sutra: बहुव्रीहेश्चान्तोदात्तात्
बहुव्रीहेः क्तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् ॥<!जातिपूर्वादिति वक्तव्यम् !> (वार्तिकम्) ॥ तेन बहुनञ्सुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता ।<!जातान्तान्न !> (वार्तिकम्) ॥ दन्तजाता ।<!पाणिगृहीती भार्यायाम् !> (वार्तिकम्) ॥ पाणिगृहीतान्या ॥
index: 4.1.52 sutra: बहुव्रीहेश्चान्तोदात्तात्
बहुव्रीहेश्चान्तोदात्तात् - बहुव्रीहेश्च । क्तादिति अत इति चानुवर्तते । तदाह — बहुव्रीहेरिति । क्तान्तादिति । क्तान्तान्तादित्यर्थः । तेनेति । जातिपूर्वादिति विशेषणेन बह्वादिपूर्वान्न ङीषित्यर्थः ।सुखादिभ्यः कर्तृवेदनाया॑मित्यत्र सुखादिगणः पठितः । जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः॑ इति,नञ्सुभ्या॑मितिबहोर्नञ्वदुत्तरपदभूम्नी॑ति च क्तान्तबहुव्रीहावन्तोदात्तविधायकानि । अत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वस्यान्तोदात्तत्वेऽप्यर्थात् पर्युदास इति भावः ।ऊरुभिन्नीति । ऊरू भिन्नौ असंयुक्तौ यस्या इति विग्रहः । 'निष्ठा' इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति,जातिकालसुखादिभ्यः परा निष्ठा वाच्या॑ इति वार्तिकात् । 'जातिकालसुखादिभ्यः' इत्यादिसूत्रेणान्तोदात्तमिदम् । जातिलक्षणं तुजातेरस्त्रीविषया॑दित्यत्र वक्ष्यते । बहुकृतेति । बहवः कृता यायेति विग्रहः । अकृता, सुकृता, मासयाता, सुखयाता, दुःखयाता इति च भाष्ये प्रत्युदाहृतम् ।जातान्तान्न-इति वार्तिकम् ।बहुव्रीहेश्चे॑त्युक्तो ङीष् नेत्यर्थः । दन्तजातेति । दन्ता जाता यस्या इति विग्रहः । ऊरुभिन्नीतिवत् परनिपातः ।पाणिगृहीती भार्यायामिति । इदमपि वार्तिकम् । विधिवदूढा भार्या , तदस्यां विद्यमानादेव पाणिगृहीतशब्दान्ङीषित्यर्थः । विवाहकाले विधिवत् पाणिर्गृहीतो यस्या इति विग्रहः । अन्येति । दास्यादिरित्यर्थः ।
index: 4.1.52 sutra: बहुव्रीहेश्चान्तोदात्तात्
बहुव्रीहिर्योऽन्तोदाक्त इति । अत्र'क्तात्' इत्यनुवृत्तिसामर्थ्यात्प्रत्ययग्रहणपरिभाषा, कृद्ग्रहणपरिभाषा च न प्रवर्तते इति बहुव्रीहेः क्तान्तत्वम् । शङ्खभिन्निति ।'निष्ठा' इति पूर्वनिपातो न भवति;'जातिकालसुखादिभ्यः परवचनम्' इति वचनात् । शङ्खादयो हि जातिवचनाः, अत एव'जातिकालसुखादिभ्यः' इत्यन्तोदातत्वं भवति । गलोत्कृतीति ।'कृती छेदने' , उत्पूर्वात् क्तः । गलमुत्कृतमस्या इति विग्रहः । पादपतितेति ।'कर्तृकरणे कृता बहुलम्' इति समासः, थाथादिस्वरेणान्तोदातत्वम् । अन्तोदाताज्जातप्रतिषेध इति । अन्तोदाताद्वहुब्रीहेर्ङीष्विधाने जातशब्दान्तात्प्रतिषेधो वक्तव्यः, स त्वन्तग्रहणादेव सिद्धः । कथम् ? इहान्तग्रहणं न कर्तव्यम्, वर्णादनुदातादितिवद् उदातान्तादिति विज्ञास्यते, तत् क्रियते नित्ययोगे यथा बहुव्रीहिर्विज्ञायेत । दन्तजातादौ तु'वा जाते' इति विकल्पेनान्तोदातत्वम् । पाणिगृहीत्यादीनां विशेष इति । सिद्धये इति शेषः । अग्निसाक्षिकं यस्याः पाणिर्गृह्यते सा पाणिगृहीतीति भवति । कथञ्चिदिति । यथोक्तात्प्रकारादन्येन प्रकारेणेत्यर्थः । अबहुनञित्यादि । बह्वादिपूर्वपदाद्वहुव्रीहेर्ङीष् न भवतीति वक्तव्यमित्यर्थः । बहुकृतेति । बहुनि कृतान्यनयेति विग्रहः,'बहोर्नञ्वदुतरपदभूम्नि' इत्यन्तोदातत्वम् । अकृता, सुकृतेति । न विद्यते कृतमनया, शोभनं कृतमनयेति विग्रहः,'नञ्सुभ्याम्' इत्यन्तोदातत्वम् । मासजातेति । मासो जातोऽतीतोऽस्याः । सुखं जातं प्राप्तमनया, दुः खं जातमनयेति विग्रहः । सुखादयः'सुखादिभ्यः कर्तृवेदनायाम्' इत्यत्र पठिता गृह्यन्ते । अथ वा - बहुव्रीहेश्च जातिपूर्वादिति वक्तव्यम्, बहुव्रीहावन्तोदातनिमितेष्वन्येषु प्रतिषिद्धेषु जातिरेवान्तोदातनिमितं क्तान्तस्यावशिष्यते इति जातिग्रहणमेवात्र कर्तव्यमित्यर्तः ॥