क्तादल्पाख्यायाम्

4-1-51 क्ताद् अल्पाख्यायाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् करणपूर्वात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

करणपूर्वादित्येव। करणपूर्वात् प्रातिपादिकात् क्तान्तादल्पाख्यायां ङीष् प्रत्ययो भवति। अल्पाख्यायामिति समुदायोपाधिः। अभ्रविलिप्ती द्यौः। सूपविलिप्ती पात्री। अल्पसूपेत्यर्थः। अल्पाख्यायामिति किम्? चन्दनानुलिप्ता ब्राह्मणी॥

Siddhanta Kaumudi

Up

करणादेः क्तान्तात् स्त्रियां ङीष् स्यादल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः अल्पाख्यायां किम् ?चन्दनलिप्ताङ्गना ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्तादल्पाख्यायाम्>> - क्तादल्पाख्यायां । करणादेरिति । करणपूर्वादित्यनुवृत्तेरिति भावः । क्तान्तादिति । क्तान्तान्तादित्यर्थः, प्रत्ययग्रहणपरिभाषालब्धक्तान्तेन प्रातिपदिकस्य विशेषणात् । अदन्तादिति । 'अत' इत्यनुवृत्तेरिति भावः । अल्पत्वे द्योत्ये इति ।अल्पाख्याया॑मिति समुदायोपाधिः । अल्पत्वं करणगतं क्रियागतं वा । अभ्रलिप्ती द्यौरिति । अभ्रैरल्पैराच्छन्नेत्यर्थः । अभ्रैरीषदाच्छन्नेति वा ।

Padamanjari

Up

अल्पाख्यायामिति समुदायोपाधिरिति । ननु चाल्पैरभ्रैर्विलिप्तेति पूर्वपदार्थस्यैवाल्पता गम्यते, न विलिप्तार्थस्य ? एवं मन्यते - अभ्राणांमल्पत्वे सति तद्विलेपनस्याल्पत्वमवश्यम्भावीति । अभ्रविलिप्तीति । वृतौ गतार्थत्वादल्पशब्दस्याप्रयोगः । चन्दनानुलिप्तेति । बहुलेन चन्दनेनानुलिप्तेत्यर्थः । कृद्ग्रहणपरिभाषया समुदायस्य क्तान्तत्वम् ॥