क्रीतात् करणपूर्वात्

4-1-50 क्रीतात् करणपूर्वात् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

करणं पूर्वमस्मिन्निति करणपूर्वं प्रातिपदिकम्। क्रीतशब्दान्तात् प्रातिपदिकात् करणपूर्वात् स्त्रियां ङीष् प्रत्ययो भवति। वस्त्रेण क्रीयते सा वस्त्रक्रीती। वसनक्रीती। करणपूर्वादिति किम्? सुक्रीता। दुष्क्रीता। इह कस्माद् न भवति — सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसीति? टाबन्तेन समासः। अत इति चानुवर्तते। <<गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः>> इति बहुलं तदुच्यते, <<कर्तृकरणे कृता बहुलम्>> २.१.३२ इति॥

Siddhanta Kaumudi

Up

क्रीतान्ताददन्तात्करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥

Laghu Siddhanta Kaumudi

Up

क्रीतान्ताददन्तात् करणादेः स्त्रियां ङीष् स्यात्। वस्त्रक्रीती। क्वचिन्न। धनक्रीता॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पूर्वशब्दोऽवयववचन इत्याह - करणं पूर्वमस्मिन्नित्यादि । व्यवस्थावाचिनि तु पूर्वशब्दे करणं पूर्वमस्मादिति वाच्यं स्यात् । एवं च क्रीतस्य करणवाचिशब्दान्तरमवयवो नोपपद्यत इति तद्व्यतिरिक्तमेव प्रातिपदिकं करणपूर्वत्वेन विशेष्यते, क्रीतशब्देनापि विशेषितस्यैव विशेषणातदन्तविधिरित्याह - क्रीतशब्दान्तात्प्रातिपदिकादिति । यदि तु व्यवस्थावाचिनं पूर्वशब्दमाश्रित्य क्रीतशब्दो विशेष्यति - करणं पूर्वमस्मादिति, ततो वाक्येऽपि स्याद् - अश्वेन क्रीतेति । तस्मादवयववाची पूर्वशब्दः, प्रातिपदिकं च विशेष्यमिति सम्यगुक्तम् । वस्त्रक्रीतिति ।'गतिकारकोपपदानाम्' इति वचनात् प्रागेव सुबुत्पतेः क्रीतशब्देन सह समासः । चाबन्तेन समास इति । एकादेशस्य पूर्वं प्रत्यन्तवत्वात्कृदन्तताया अविघातादविरुद्धष्टाबन्तेन समासः । अथ टाबन्तेनापि समासे कस्मादेवात्र न भवति ? तत्राह - अत इतीति । ननूदाहरणवत्प्रागेव टाबुत्पतेरत्रापि समासः प्राप्नोति, वक्तव्यो वा विशेषः ? अत आह - गतिकारकोपपदानामित्यादि । न तत्र बहुलग्रहणमस्तीति चेतत्राह - कर्तृकरणे कृता बहुलमिति ।'कर्तृकरणे कृता बहुलम्' इत्यनेन तावदत्र समासः, स च बहुलग्रहणात् प्राक् सुबुत्पतेः क्वचिद्भवति, क्वचिदुत्पन्ने सुपीति मन्यते । एतावतैव च बहुलं तदुच्यते इति सामन्येनोक्तम्, न पुनः'कर्तृकरणे कृता बहुलम्' इत्ययमेव समासः प्राक् सुबुत्पतरिष्यते । यथा तु भाष्यं तथा नैतदिष्यते ॥