इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्

4-1-49 इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् पुंयोगाद्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इन्द्रादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीष् प्रत्ययो भवति, आनुक् चागमः। येषामत्र पुंयोग एवेष्यते, तेषामानुगागममात्रं विधीयते। प्रत्ययस्तु पूर्वेणैव सिद्धः। अन्येषां तूभयं विधीयते। इन्द्राणी। वरुणानी। भवानी। शर्वाणी। रुद्राणी। मृडानी ॥ हिमारण्ययोर्महत्त्वे॥ महद्धिमं हिमानी। महदरण्यमरण्यानी॥ यवाद् दोषे॥ दुष्टो यवो यवानी॥ यवनाल्लिप्याम्॥ यवनानी लिपिः॥ उपाध्यायमातुलाभ्यां वा॥ उपाध्यायी, उपाध्यायानी। मातुली, मातुलानी॥ आचार्यादणत्वं च॥ आचार्यानी।॥ अर्यक्षत्रियाभ्यां वा॥ अर्याणी, अर्या। क्षत्रियाणी, क्षत्रिया। विना पुंयोगेन स्वार्थ एवायं विधिः। पुंयोगे तु ङीषैव भवितव्यम्। अर्यी। क्षत्रियी॥ मुद्गलाच्छन्दसि लिच्च॥ र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ (ऋ० १०.१०२.२)॥

Siddhanta Kaumudi

Up

एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी ॥<!हिमारण्ययोर्महत्त्वे !> (वार्तिकम्) ॥ महद्धिमं हिमानी । महदरण्यमरण्यानी ॥<!यवाद्दोषे !> (वार्तिकम्) ॥ दुष्टो यवो यवानी ॥<!यवनाल्लिप्याम् !> (वार्तिकम्) ॥ यवनानां लिपिर्यवनानी ।<!मातुलोपाध्याययोरानुग्वा !> (वार्तिकम्) ॥ मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी ॥<!या तु स्वयमेवाध्यापिका तत्र वा ङीष् वाच्यः !> (वार्तिकम्) ॥ उपाध्यायी । उपाध्याया । (गणसूत्रम् -) आचार्यादणत्वं च ॥ आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं व्याख्यात्री ॥<!अर्यक्षत्रियाभ्यां वा स्वार्थे !> (वार्तिकम्) ॥ अर्याणी । अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्यी । क्षत्रियी । कथं ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति कर्मण्यण् <{SK2913}> ॥

Laghu Siddhanta Kaumudi

Up

एषामानुगागमः स्यात् ङीष् च। इन्द्रस्य स्त्री - इन्द्राणी। वरुणानी। भवानी। शर्वाणी। रुद्राणी। मृडानी। <<हिमारण्ययोर्महत्त्वे>> (वार्त्तिकम्) । महद्धिमं हिमानी। महदरण्यमरण्यानी। <<यवाद्दोषे>> (वार्त्तिकम्) । दुष्टो यवो यवानी। <<यवनाल्लिप्याम्>> (वार्त्तिकम्) । यवनानां लिपिर्यवनानी। <<मातुलोपाध्याययोरानुग्वा>> (वार्त्तिकम्) । मातुलानी, मातुली। उपाध्यायानी, उपाध्यायी। <<आचार्यादणत्वं च>> (वार्त्तिकम्)। आचार्यस्य स्त्री आचार्यानी। <<अर्यक्षत्रियाभ्यां वा स्वार्थे>> (वार्त्तिकम्) । अर्याणी, अर्या। क्षत्रियाणी, क्षत्रिया॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन- मातुलाचार्याणामानुक्>> - इन्द्रवरूण । आनुगागम इति । कित्त्वादागमलिङ्गादिति भावः । ङीष् चेति । 'अन्यतो ङीष' इत्यतस्तदनुवृत्तेरिति भावः । पुंयोग एवेष्यते इति । पुंयोगादित्यनुवृत्तेः, तेषां स्त्रीत्वे पुंयोगं विनाऽप्रवृत्तेश्चेति भावः । नन्वेवं पुंयोगादित्येव सिद्धे ङीष्विधिव्र्यर्थ इत्यत आह — तत्रेति । तत्र इन्द्रादिषु षट्सुमातुलाचार्ययोश्च पुंयोगादित्येव ङीषि सिद्धे तत्संनियोगेन आनुगागममात्रं विधीयत इत्यर्थः । इतरेषामिति । हामारण्ययवयवनानां तु आनुक् ङीष् चेत्युभयं विधीयते, तत्र पुंयोगस्याऽसंभवादिति भावः । इन्द्राणीति । आनुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः, सवर्णदीर्घः, णत्वमिति भावः । वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानीत्युदाहरणानि सुगमत्वादुपेक्षितानि । दीर्घोच्चारणं विना अनुग्विधौ तु पररूपापत्तिः, अकारोच्चारणस्य अल्लोपनिवृत्त्य चरितार्थत्वात् । नुग्विधौ तु अल्लोपापत्तिरित्यन्यत्र विस्तरः ।हिमारण्योर्महत्त्वे — इति वार्तिकम् । महत्त्वविशिष्टे हिमे अरण्ये च वर्तमानयोरानुङ्ङीषावित्यर्थः । महद्धिमं हिमानीति । महत्त्वयोगे स्त्रीत्वमत एव ज्ञेयम् । अरण्यानीति । महदरण्यमित्यर्थः ।यवाद्दोषे — इति वार्तिकम् ।आनुङ्ङीषा॑विति शेषः । दुष्टयवे वृत्तौ स्त्रीत्वमत एव ज्ञेयम् । यवनाल्लिप्याम् — इत्यपि वार्तिकम् । विपिरक्षरविन्यासः । तत्र लक्षमया वृत्तौ आनुङ्ङीषावित्यर्थः ।मातुलोपाध्याययोरानुग्वेति । इदमपि वार्तिकम् । अत्र पुंयोगादिति सम्बध्यते, हिमादिष्विवाऽत्र असम्भवाऽभावात् । अत्र आनुगेव तु विकल्प्यते, आनुगभावेऽपि पक्षे ङीष् भवत्येव । मातुलान्नित्यं प्राप्ते उपाध्यायादप्राप्ते विभाषेयम् । मातुलानी मातुलीति । मातुलस्य स्त्रीत्यर्थः । उपाध्यायानी उपाध्यायीति । उपाध्यायस्य स्त्रीत्यर्थः ।या तु स्वयमेवेति । इदं तु वार्तिकं तृतीयस्य तृतीयस्य तृतीयेइहश्चे॑ति सूत्रे पठितम् । या स्वयमेवाध्यापयति न तूपाध्यायस्य स्त्री, तत्र पुंयोगाऽभावेऽपि केवलङीष्विकल्पो वाच्य इत्यर्थः । युगान्तरे ब्राहृवादिन्यः स्त्रियः सन्ति तद्विषयमिदम् ।पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्री वचनं तथा.॑ इति स्मरणात् ।आचार्यादणत्वं च — इत्यपि वार्तिकम् । चकार आनुङ्ङीषोः समुच्चयार्थः । आचार्यानीति । आचार्यस्य स्त्रीत्यर्थः ।अट्कुप्वा॑ङिति णत्वं न भवति ।उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।॑ 'एकदेशमुपाध्यायः' इति स्मृतिः । पुंयोग इत्येवेति । पुंयोगग्रहणमनुवर्तते एवेत्यर्थः । तत्प्रयोजनमाह — आचार्येति । अत्र पुंयोगाऽभावं विशदयति — स्वयं व्याख्यात्रीति । धर्मोपदेष्ट्रीत्यर्थः ।यस्माद्धर्मानाचिनोति स आचार्यः इति स्मरणादिति भावः ।अर्यक्षत्रियाभ्यां वा — इति वार्तिकम् ।आनुङ्ङीषा॑विति शेषः ।स्वार्थे॑ति व्याख्यानलभ्यं, तेन पुंयोगनिरासः । अत एव भाष्ये 'आर्याणी अर्या' इत्येवोक्तम् । पुंयोग एव प्रवृत्तौ तु उपाध्यायीतिवदर्यीति ङीषमेवोदाहरेत् । अर्यशब्दं व्याचष्टे — स्वामिनी वैश्या वेत्यर्थ इति ।अर्यः स्वामिवैश्ययोः॑ इति निपातनादिति भावः । क्षत्रियाणी क्षत्रियेति । क्षत्रियात् क्षत्रियायां भार्यायामुत्पन्नेत्यर्थः ।सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः॑ इत्युपक्रम्यविन्नास्वेष विधिः स्मृतः॑ इति स्मरणात् । विन्नास्वित्यस्य ऊढास्वित्यर्थः । पुंयोगे तु अर्यी क्षत्रियीति । अर्यस्य स्त्री अर्यी, क्षत्रियस्य स्त्री क्षत्रियी, वैश्या शूद्रा वेत्यर्थः । कथमिति ।इन्द्रवरुण॑त्यादिसूत्रे ब्राहृन्शब्दस्याऽग्रहणाद्ब्राहृणः स्त्रीत्यर्थे ब्राहृणीत्यानुङ्ङीषौ कथमिति प्रश्नः । उत्तरमाह — ब्राहृआणमिति । आनयतीत्यस्य व्याख्यानं-जीव्यतीति ।अन प्राणने॑ । प्राणनं जीवनम् । अस्माद्धातोर्हेतुमण्णिचि उपधावृद्धौ तिपि शपि गुणाऽयादेशयोरानयतीति रूपम् । भर्तृजीवनस्य जायासौमङ्गल्यायत्तत्वात् । ततस्च ब्राहृआणमानयतीति विग्रहे 'आनि' इति ण्यन्तात्कर्मण्यणि॑त्यपिणेरनिटी॑ति णिलोपे आनशब्देन ब्राहृआणमित्यस्य उपपदसमासे सुब्लुकि नलोपे सवर्णदीर्घे ब्राहृआनशब्दात्टिड्ढाणञि॑ति ङीपियस्येति चे॑त्यकारलोपेपूर्वपदात्संज्ञाया॑मिति णत्वे ब्राहृणीति रूपमिति भावः । 'एकाजुत्तरपदे' इति तु न, अणि सति प्रातिपदिकस्य द्व्यच्कत्वाल्लुप्तेऽप्यणि लोपस्य स्थानिवत्त्वात् ।पूर्वत्रासिद्धीये न स्थानिवत् इति तु न, 'तस्य दोषः' इत्युक्तेः ।

Padamanjari

Up

येषायिति । इन्द्रादीनां मृडान्तानां मातुलाचार्ययोश्च । अन्येषामिति । हिमादीनाम् । हिमारण्ययोर्महत्व इति । महत्वयोगेनानयोः स्त्रीत्वम्, अन्यत्र नपुंसकत्वम् । दुष्टो यव इति पाठः । यवानीति । जात्यन्तरमेवाभिधीयते, अयमेव च दोषो यदुत यवत्वजातेरभावे तदाकारानुकृतिः । यवनाल्लिप्यामिति । केचिज्जनपदिनो यवनास्तेषां लिपिः,'तस्येदम्' इत्यणो बाधको ङीष् । लिपिशब्दः स्त्रीलिङ्गः । उपाध्यायमातुलाभ्यां वेति । उपाध्यायमातुलाभ्यां यो ङीष् तत्सन्नियोगेनानयोर्वाऽऽनुगागमो भवतीति वक्तव्यमित्यर्थः । तत्रोपाध्यायस्याप्राप्तो मातुलस्य तु नित्यं प्राप्त आनुग्विकल्प्यते । आचार्यादणत्वं चेति । क्षुभ्नादिषु पठितव्यमित्युक्तं भवति । अर्यक्षत्रियाभ्यां वेति । ङीषानुकौ द्वावप्यप्राप्तौ विकल्प्येते । स्वार्थ एवायं विधिरिति । यदि तु पुंयोगेऽयं विधिः स्याच्छूअद्रापि क्षत्रियस्य भार्या क्षत्रियाणी स्यात्, ब्राह्मणभार्या च क्षत्रियाणी न स्यात् । तस्मात्स्वार्थ एव स्त्रीत्वविशिष्टोऽयं विधिः । मुद्गलादिति । ङीषो लित्वादानुगाकारस्य लित्स्वरः । अथ किमर्थमानुग्विधीयते, न अनुगेवोच्येत, अकारोच्चारणसामर्थ्यादतो गुणे पररूपं बाधित्वा सवर्णदीर्घत्वं भविष्यति, अन्यथा नुगेवोच्येत, यथैव तर्हि पररूपं न भवति तथैव सवर्णदीर्घत्वमपि न स्यात् ? नैष दोषः; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, तस्य तु विधेर्निमितमेव नासौ बाध्यते, तस्मादानुगेव वक्तव्यः । अपर आह - ठिन्द्रमाचष्टे इन्द्रयति, इन्द्रयतेः क्विप्, णिलोपः, इन्द्रः स्त्री इन्द्राणी, अत्र दीर्घस्य श्रवणम्, दीर्घाच्चारणसामर्थ्यादत इत्यधिकारो बाध्यतेऽ इति, एवमपि क्विबन्तः पुंस आख्या न भवति ॥