4-1-48 पुंयोगाद् आख्यायाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.48 sutra: पुंयोगादाख्यायाम्
पुंसा योगः पुंयोगः। पुंयोगाद् धेतोर्यत् प्रातिपदिकं स्त्रियां वर्तते पुंस आख्याभूतं तस्माद् ङीष् प्रत्ययो भवति। गणकस्य स्त्री गणकी। महामात्री। प्रष्ठी। प्रचरी। पुंसि शब्दप्रवृत्तिनिमित्तस्य सम्भवात् पुंशब्दा एते, तद्योगात् स्त्रियां वर्तन्ते। पुंयोगातिति किम्? देवदत्ता। यज्ञदत्ता। आख्याग्रहणात् किम्? परिसृष्टा। प्रजाता। पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते, न तु पुमांसमाचक्षते। गोपालिकादीनां प्रतिषेधः। गोपालकस्य स्त्री गोपालिका। सूर्याद् देवतायां चाब् वक्तव्यः। सूर्यस्य स्त्री देवता सूर्या। देवतायाम् इति किम्? सुरी।
index: 4.1.48 sutra: पुंयोगादाख्यायाम्
या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् स्यात् । गोपस्य स्त्री गोपी ।<!पालकान्तान्न !> (वार्तिकम्) ॥ गोपालिका । अश्वपालिका ।<!सूर्याद्देवतायां चाप् वाच्यः !> (वार्तिकम्) ॥ सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? सूरी कुन्ती । मानुषीयम् ॥
index: 4.1.48 sutra: पुंयोगादाख्यायाम्
यापुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष्। गोपस्य स्त्री गोपी। पालकान्तान्न (वार्त्तिकम्) -
index: 4.1.48 sutra: पुंयोगादाख्यायाम्
पुंयोगादाख्यायाम् - पुंयोगात् । पुंयोगादिति हेतौ पञ्चमी । आख्यायामिति पञ्चम्याः सप्तम्यादेशः,सुपां स्थाने सुपो भवन्तीति वक्तव्य॑मित्युक्तेः । आख्येत्यनेन वाचकः शब्दो विवक्षितः, कस्य वाचक इत्यपेक्षायां पुंयोगादित्युपस्थितत्वात्पुंस इति लभ्यते । तथाच आख्यायामित्यनेन पुंसि प्रसिद्धाच्छब्दादिति लभ्यते । पुंयोगादिति स्त्रियामित्यत्रान्वेति । तथाच पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानादिति लभ्यते । तदा — या पुमाख्येत्यादिना । ङीषिति । 'अन्यतो ङीष्' इत्यतस्त दनुवृत्तेरिति भावः ।वोतो गुणवचना॑दिति पूर्वसूत्रे तुगुणवचनान्ङीबाद्युदात्तार्थः॑ इति वार्तिकान्ङीप् लब्ध इति न तत्राऽस्यानुवृत्तिः । गोपस्य स्त्रीति । गाः पातीति गोपः,आतोऽनुपसर्गे कः॑ । तज्जायायां तु गोरक्षणाऽभावेऽपि तद्भार्यात्वात्तद्व्यपदेशः । ततश्च पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानत्वान्ङीषियस्येति चे॑त्यकारलोप इति भावः । हरेः स्त्री, शम्भोः स्त्रीत्यादौ न ङीष्, स्त्रीप्रत्ययविधिप्रकरणेऽत इत्यनुवृत्तेः । या तु स्वयमेव गाः पाति, नतु गोपस्य स्त्री, सा तु गोपा । तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्त्या पुंयोगादवृत्तेः । नच गोपस्य माता आश्रूः मातुलानी वा गौपीति स्यादिति वाच्यम्,अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छब्दमपी॑ति बाष्यस्वारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात् । दुहितरि कैकयी देवकीत्यादयस्तु गौरादौ पाठआ इति शब्देन्दुशेखरे स्थितम् । आख्याग्रहणं किम् । प्रसूता । अयं हि शब्दो जातप्रसवामाहा । स च प्रसवः पुंयोगनिमित्तकः, तन्निमित्ता चास्य स्त्रियां वृत्तिः, न त्वयं पुंसि प्रसिद्धः, अतो न ङीष् । अत्रगोपालकादीनां प्रतिषेधः॑ इति वार्तिकम् । अत्र आदिपदेन अआपालिकेत्यादयः पालकान्ता एव गृह्यन्ते, भाष्ये तेषामेवोदाहरणात् । तदाह — पालकान्तान्नेति ।पुंयोगलक्षण ङी॑षिति शेषः । गोपालिकेति । गोपालकस्य स्त्रीत्यर्थः । ननु पालयतीति पालकः, कर्तरि ण्वुल्, 'युवोरनाकौ' इत्यकादेशः । 'णेरनिटि' इति णिलोपः । गवां पालक इति विग्रहे षष्ठीसमासे सुपो लुकि गोपालकशब्दः । तत्र किं शेषे षष्ठी, उत 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । न तावदाद्यः, प्रत्ययलक्षणमाश्रित्य टापः समासावयवात् पालकशब्दादुत्पन्नसुपः परत्वेन असुप इति निषेधात्प्रत्ययस्था॑दिति इत्त्वानुपपत्तेः । नचाऽस्तु कर्मणि षष्ठीत#इ द्वितीयः पक्षः,गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्वपत्तेः॑ इति वचनेन सुबुत्पत्तेः प्रागेव पालकशब्देन प्रातिपदिकेन गवामिति षष्ठ्याः समासे सति समासदुत्पन्नस्य टापः सुपः परत्वाऽभावेन इत्त्वस्य निर्बाधत्वादिति वाच्यं,तृजकाभ्यां कर्तरी॑ति कारकषष्ठ्याः समासनिषेधादिति चेत्, मैवम् — गाः पालयतीति गोपालः । कर्मण्यण् । उपपदसमासः । गोपाल एव गोपालकः, स्वार्थिकः कः । तद्धितावयवत्त्वात्सुब्लुक् । गोपालकस्य स्त्री गोपालिकेति व्युत्पत्त्याश्रयणात् । नह्रत्र टाप् सुपः परः, केन व्यवधानात् । अस्तु वा शेषषष्ठआ समासः, एवमपि न टाप् सुपः परः, शेषत्वविवक्षायामपि वस्तुतः कारकतया सुबुत्पत्तेः प्रागेव शेषषष्ठआ समासप्रवृत्तेः । अत एव प्रकृतसूत्रेउपपदमतिङि॑ति सूत्रे च भाष्ये कुम्भकारपदे सुबुत्पत्तेः प्रागेव कुम्भस्येति शेषषष्ठआ समास उपन्यस्तः सङ्गच्छत इति शब्देन्दुशेखरे प्रपञ्चितम् ।सूर्याद्देवतायामिति । देवताभूतायां स्त्र पुंयोगाद्वर्तमानात्सूर्यशब्दाच्चाप् वक्तव्य इत्यर्थः ।गुयोगा॑दिति ङीषोऽपवादः । चपावितौ । सूर्येति । चापि सवर्णदीर्घः । देवतायां किमिति । सूर्यस्त्रियां देवतात्वाऽव्यभिचारात् प्रश्नः । सूरी कुन्तीति । ङीषिसूर्यतिष्ये॑ति यकारलोपः,यस्येति चे॑त्यकारलोपः । मानुषीयमिति । इयं कुन्ती मानुषी, न तु देवतेत्यर्थः । एतच्च महाभारतादौ स्पष्टम् । नचसूर्याद्देवतायां ने॑त्येवोच्यतां, ङीषि निषिद्धे टापैव सूर्येति सिद्धेरिति वाच्यं, टापि हि सति पित्त्वादनुदात्तत्वम्अनुदात्तौ सुप्पित्तौ॑ इत्युक्तेः । चापि तु 'चितः' इत्यन्तोदात्तत्वमिति भेदः ।
index: 4.1.48 sutra: पुंयोगादाख्यायाम्
पुंसा योगः पुंयोग इति । योगः उ सम्बन्धः । पुंयोगाद्धेतोरिति । हेतौ पञ्चमीं दर्शयति । आख्याग्रहणं गुणभूतेनापि पुंसैव सम्बध्यते; अन्येन सम्बन्धासम्भवात् । गणकादयो हि शब्दाः पुंयोगात्स्त्रियां वर्तमाना न पुंयोगस्याख्या भवन्ति, स्त्रियां च पुंयोगमन्तरेण न प्रवर्तन्ते इति स्त्रिया अपि नाक्यास्तदाह - पुंस आख्याभूतमिति । बूतग्रहणेनैतद्दर्शयति - यत्प्रातिपदिकं प्राक् पुंसो वाचकमभूत्, सम्प्रति तु पुंयोगाद्धेतोः स्त्रियां वर्तत इति । गणकीत्यादि । गणयतीति गणकः, ण्वुल । प्रतिष्ठते प्रष्ठः,'प्रष्ठो' ग्रगामिनिऽ इति षत्वम् । कथं पुनरेते पुंशब्दाः ? इत्यत आह - पुंसि शब्दप्रवृत्तिनिमितस्य सम्भवादिति । गणयति प्रतिष्ठत इति व्युत्पत्या पुंसि रूईढा एते, न स्त्री गणयति प्रतिष्ठते वा । महामात्रशब्दस्यापि प्रवृत्तिनिमितं हस्तिपकानामाज्ञापनम् । हस्तिपकाधिपतिर्हि महामात्रः । या तु स्वयं गणयति प्रतिष्ठते वा, न तस्यां पुंयोगाच्छब्दप्रवृत्तिः, अपि तर्हि स्वयमेव क्रियासम्बन्धादिति टापैव तत्र भाव्यम् । कथं तर्हि स्त्रियां प्रवृत्तिरित्य आह - तद्योगादिति । कोऽर्थः ? तस्येदमिति सम्बन्धादिति चेतद्धितो भवेत् । ङीषेव बाधक- स्याच्चेन्नित्यं बाधः प्रसज्यते ॥ गणकस्येयमिति भेदसम्बन्धे विवक्षिते'तस्येदम्' इति तद्धितः प्राप्नोति । अथ नाप्राप्ते तद्धिते ङीषारभ्यमाणस्तस्य बाधक इत्युच्यते, कदाचिदपि तद्धितो न स्यात, उभयमपि त्विष्यते - प्राष्ठी, प्रष्ठीति ? स्यान्मतमेतत् - ठेतदेव ङीष्विधानं ज्ञापकम् - भेद विवक्षायामपि तद्धितमन्तरेण प्रष्ठादयः स्त्रियां वर्ततेऽ इति । तेन'न केवला प्रकृतिः प्रयोक्तव्या' इति नियमोऽत्र बाध्यते, सति हि तद्धिते प्राष्ठीत्यणि ङीबेव सिद्धः, तस्य चोदातनिवृत्तिस्वरेणोदातत्वमिति किं ङीष्विधानेनेति ? तन्न; येऽनीकारान्तास्तद्धिताः - भानोरियं भानवीयेति, तदर्थमेतत्स्यात् । एवं तर्ह्याख्याग्रहणं ज्ञापकम् - नात्र तद्धितोत्पतिरिति, न हि तद्धितान्तः प्रकृत्यर्थे पुंसि वर्तते ? एवमपि ज्ञापकेन तद्धितस्य नित्यं बाधात्प्राष्ठीति न स्यात् । तस्माद् दुष्ट एवायं पक्षः । एवं तर्हि यथा - मञ्चाः क्रोशन्ति, गौर्वाहीकः, गङ्गायां घोषः, यष्टीः प्रवेशयेत्यादौ तात्स्थाताद्धर्म्यातत्सामीप्यातत्साहचर्याच्चातस्मिन्नपि तत्वाध्यारोपेण तच्छब्दप्रवृत्तिस्तद्वदत्रापि प्रष्ठादिसाहचर्यातच्छब्दप्रवृत्तिर्भविष्यति ? तत्राभेदेन भेदसम्बन्धस्य निवृतत्वान्न तद्धितप्रसङ्गः । विवक्षिते च भेदे तद्धितोत्पत्या प्राष्ठीत्यादि भविष्यति ? तत्राहुः - यस्त्वया धर्मश्चरितव्यः सोऽनया सहेति भार्यायाः शास्त्रसिद्धं साहचर्यमिति तस्यामेवैतन्ङीष्विधानमिति । भट्टिकाव्ये तु दुहितृष्वपि दृष्टः प्रयोगः -'कौसल्यया' सावि सुखेन रामः प्रक्केकयीतो भरतस्ततोऽभूत्ऽ इति, केकयस्य दुहिता केकयी, जनपदशब्दादपत्यप्रत्यये तु कैकयीति प्राप्नोति, न च तस्य ठातश्चऽ इति लुक्, न प्राच्यभर्गादीति प्रतिषेधातत् । तस्मात्सोऽयमित्यभिसम्बन्ध इत्ययमेव पक्षो ग्राह्यः । यद्वा - यथा स्वामिदासौ पचत इति स्वामिनः संविधातृत्वात्पक्तृत्वम्, दासस्य तु साक्षात्; तथा पुरुषः साक्षात्प्रतिष्ठते स्त्र्यपि संविधातृत्वात्पुरुषगतायाः प्रस्थानक्रियायास्तस्यामारोपात्प्रतिष्ठत इति, तस्यामेव प्रष्ठशब्दो व्युत्पाद्यते, न तु पुरुषे व्युत्पादितः सन् तेन सहाभेदोपचारातस्यां वर्तते । न चैतावता पुंयोगादेव हेतोः स्त्रियां वर्तत इत्यस्य हानिः, साक्षात्स्वयमकर्तृत्वात् । अत्र पक्षे प्रस्थ इति स्थिते सुबन्तस्य समासः, सुप् च संख्यानिमितम्, प्रातिपदिकं च पूर्वं लिङ्गमभिधते, पश्चात्सङ्ख्यामिति तन्निमितसुबपेक्षात्समासात्प्रागेवोतरपदात्स्थशब्दाट्टाप्प्रसङ्गः, न च स्थशब्दादप्यनेनैव ङीष् लभ्यते, प्रष्ठशब्दो हि पुंस आख्या, न तु स्थशब्दमात्रम्, ? नैष दोषः;'गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक् सुबुत्पतेः' इति कृदन्तावस्थायामेव समासः, सा पुंस आख्येति ङीष् भविष्यति । परिभाषाप्रयोजनानि ठुपपदमतिङ्ऽ इत्यत्र प्रतिपादितानि । देवदतेति । स्त्रिया एव कस्याश्चिदेषा संज्ञा - परिसृष्टा, प्रजातेति । प्रसूतेत्यर्थः । पुंयोगादेते शब्दाः स्त्रियां वर्तन्त इति । परिसर्गः, प्रसवः, प्रजन इत्यर्थान्तरम् । स च न पुंयोगमन्तरेण सम्भवति, तस्मात्पुंयोगाद्धेतोः स्त्रियां वर्तते । परिसृष्टा प्रजातेति । द्वौ प्रकृतौ । एते शब्दा इति बहुवचनं तु एवंजातीयकाः शब्दाः प्रसूतादयस्तदपेक्षं द्रष्टव्यम् । गोपालिकादीनामिति । सिद्धये इति शेषः । सूर्याद्देवतायां चाब्वक्तव्य इति । ङीष एव प्रतिषेधे वक्तव्याअ चाब्विधानमन्तोदातार्थम् । सूर्यशब्दोऽयमाद्यौदातः, तत्र टापि सति आद्यौदातत्वमेवावतिष्ठेन । सूरीति । सूर्यस्य स्त्री मानुषी कुन्त्यादिः,'सूर्यतिष्य' इति यलोपः ॥