4-1-47 भुवः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् छन्दसि
छन्दसि विषये स्त्रियां भुवो नित्यं ङीष् प्रत्ययो भवति। वि॒भ्वी (ऋ० ५.३८.१) च। प्र॒भ्वी (ऋ०१.१८८.५) च। संभ्वी च। इह कस्माद् न भवति — स्वयम्भूः? उत इति तपरकरणमनुवर्तते। ह्रस्वादेवेयं पञ्चमी। भुव इति सौत्रो निर्देशः॥
ङीष् स्यात् छन्दसि । विभ्वी । प्रभ्वी । विप्रसंभ्य <{SK3160}> इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः ।<!मुद्गलाच्छन्दसि लिच्च !> (वार्तिकम्) ॥ ङीषो लित्त्वामानुक् चागमः । लित्स्वरः । रथीरभून्मुद्गलानी (र॒थीर॑भून्मुद्ग॒लानी॑) ॥
विभ्वी, प्रभ्वीति ।'विप्रसंभ्यो ड्वसंज्ञायाम्' इति डुप्रत्ययान्ताद् ङीष् । स्वयंभूरिति । भवतेः क्विप् । ह्रस्वादेवेयमिति । यद्येवं'घेर्ङिति' इति गुणे कृते'भोः' इति निर्देशः प्राप्नोति तत्राह - सौत्रोऽयं निर्देश इति । गुणस्यैव कृतस्य छान्दस उवङदेश इत्यर्थः ॥