साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्

4-1-173 साल्वावयवप्रत्यग्रथकलकूटाश्मकात् इञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात्

Sampurna sutra

Up

तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् साल्वावयव-प्रत्यग्रथ-कलकूट-आश्मकात् इञ्

Neelesh Sanskrit Brief

Up

साल्वदेशस्य जनपदवाचिनः अवयवाः, तथा प्रत्यग्रथ-जनपदः, कलकूट-जनपदः, आश्मक-जनपदः - एतेषां नामानि क्षत्रियस्य अभिधानस्वरूपेण अपि प्रयुज्यन्ते चेत् तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे 'इञ्' प्रत्ययः भवति ।

Kashika

Up

जनपदशब्दात् क्षत्रियादित्येव। सल्वा नाम क्षत्रिया तन्नामिका तस्या अपत्यम्, <<द्व्यचः>> ४.१.१२१ इति ढक् । साल्वेयः। अणपीष्यते — साल्वः। तस्य निवासः साल्वो जनपदः। तदवयवा उदुम्बरादयः, तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययविधानम्। साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्य इञ् प्रत्ययो भवति। अञोऽपवादः। औदुम्बरिः। तैलखलिः। माद्रकारिः। यौगन्धरिः। भौलिङ्गिः। शारदण्डिः। प्रात्यग्रथिः। कालकूटिः। आश्मकिः। तस्य राजनीत्येव — औदुम्बरी राजा।

उदुम्बरास्तिलखला मद्रकारा युगन्धराः।

भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः॥

Siddhanta Kaumudi

Up

साल्वो जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्>> - साल्वावयव । उदुम्बरादय इति ।उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः । इति प्रसिद्धिः ।द्व्यञ्मगधे॑ति भाष्ये तु-बुध अजमीढ-अडक्रन्धा अपि गृहीताः ।

Padamanjari

Up

सल्वा क्षत्रियेति पाठः, तन्नामिकेति वचनात्, इदं हि तन्नामिकाणः प्राप्त्यर्थमुक्तम् । न च साल्वाशब्दातस्य प्राप्तिः, वृद्धत्वात, सलेर्वप्रत्ययः । अणपीष्यत इति । साल्वावयवे अपदातौ साल्वादिति निर्देशात्, न च निपातितोऽण् ढकोऽपवादः,'साल्वेयगान्धारिभ्या च' इति निर्देशात् । तेभ्यः क्षत्रियवृत्तिभ्य इति ।'जनपदशब्दात्क्षत्रियात्' इत्यनुवृतेरेतल्लभ्यते । ठुदुम्बरास्तिलखलाःऽ इति श्लोकः प्रदर्शनार्थः । तेन बुस, अजमीढ, आजकन्द -इत्येतेभ्यो।ञपि भवति; तथा च भाष्य उदाहृतम् - बौसिः, आजमीढिः, आजकन्दिरिति । साल्वावयवसंज्ञिता इति । साल्वावयव - इत्येवं शब्दिता इत्यर्थः ॥