4-1-171 वृद्धेत्कोसलाजादाञ् ञ्यङ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात्
तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् वृद्ध-इत्-कोसल-अजादात् ञ्यङ्
'कोसल', 'अजाद' एतौ क्षत्रियवाचिनौ शब्दौ , वृद्धसंज्ञकाः क्षत्रियवाचिनः शब्दाः, तथा च इकारान्ताः क्षत्रियवाचिनः शब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे ञ्यङ्-प्रत्ययः भवति ।
जनपदशब्दात् क्षत्रियादित्येव। वृद्धात् प्रातिपदिकादिकारान्ताच्च कोसलाजाद — शब्दाभ्यां चापत्ये ञ्यङ् प्रत्ययो भवति। अञोऽपवादः। वृद्धात्तावत् — आम्बष्ठ्यः। सौवीर्यः। इकारान्तात् — आवन्त्यः। कौन्त्यः। कोसलाजादयोरवृद्धार्थं वचनम्। कौसल्यः। आजाद्यः। तपरकरणं किम्? कुमारी नाम जनपदसमानशब्दः क्षत्रियः, तस्यापत्यं कौमारः॥ पाण्डोर्जनपदशब्दात् क्षत्रियाड् ड्यण् वक्तव्यः॥ पाण्ड्यः॥ अन्यस्मात् पाण्डव एव। तस्य राजनीत्येव — आम्बष्ठ्यो राजा। आवन्त्यः। कौन्त्यः। कौसल्यः। आजाद्यः॥
वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥
ड।ल्ण्वक्तव्य इति । डकारष्टिलोषार्थः, णकारो वृद्धिनिमितस्येति पुंवद्भाव प्रतिषेधार्थः । अन्यस्मादिति । गुणवचनाद्यौधिष्ठिरपितृवचनाच्च । पुरीरण्वक्तव्यः पौरव इति क्वचित्पठ।ल्ते, तत्र पुरुशब्दस्याजनपदशब्दत्वात्प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे'द्व्यञ्मगध' इत्येव सिद्धम् ॥