4-1-170 द्व्यञ्मगधकलिङ्गसूरमसात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात्
index: 4.1.170 sutra: द्व्यञ्मगधकलिङ्गसूरमसादण्
तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् द्व्यच्-मगध-कलिङ्ग-सूरमसात् अण्
index: 4.1.170 sutra: द्व्यञ्मगधकलिङ्गसूरमसादण्
'मगध' , 'कलिङ्ग' तथा 'सूरमस' एते क्षत्रियवाचिनः शब्दाः, तथा येषु द्वौ स्वरौ स्तः ते क्षत्रियवाचिनः शब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति ।
index: 4.1.170 sutra: द्व्यञ्मगधकलिङ्गसूरमसादण्
जनपदशब्दात् क्षत्रियाभिधायिनो द्व्यचः, मगध कलिङ्ग सूरमस इति एतेभ्यश्च अपत्ये अण् प्रत्ययो भवति। अञोऽपवादः। आङ्गः। वाङ्गः। अपुण्ड्रः सौह्मः। मगधः। कालिङ्गः। सौरमसः। तस्य राजनि इत्येव, आङ्गो राजा।
index: 4.1.170 sutra: द्व्यञ्मगधकलिङ्गसूरमसादण्
अञोऽपवादः । द्व्यच् । आङ्गः । वाङ्गः । सौह्मः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥
index: 4.1.170 sutra: द्व्यञ्मगधकलिङ्गसूरमसादण्
द्व्यञ्मगधकलिङ्गसूरमसादण् - द्व्यञ्मगध । अञोऽपवाद इति । जनपदशब्दादिति विहितस्याऽञोऽपवाद इत्यर्थः । द्व्यजिति । 'उदाह्यियते' इति शेषः । अङ्ग, वङ्ग, सुहृ-इत्येते द्व्यचो देशक्षत्रियवाचिनः । अङ्गस्यापत्यमिति विग्रहः । तस्य राजन्यप्येवमिति । अङ्गादिदेशस्य राजेति विग्रहः ।