4-1-169 साल्वेयगान्धारिभ्यां च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात् क्षत्रियात् अञ्
index: 4.1.169 sutra: साल्वेयगान्धारिभ्यां च
तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् साल्वेय-गान्धारिभ्यामञ् च
index: 4.1.169 sutra: साल्वेयगान्धारिभ्यां च
'साल्वेय' तथा 'गान्धार' एतौ क्षत्रियवाचिनौ शब्दौ यदि जनपदस्य नामरूपेण अपि प्रयुज्येते, तर्हि ताभ्याम् 'तस्य अपत्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।
index: 4.1.169 sutra: साल्वेयगान्धारिभ्यां च
साल्वेयगान्धारिशब्दाभ्यामपत्ये अञ् प्रत्ययो भवति। जनपदशब्दावेतौ क्षत्रियाभिधायिनौ ताभ्यामञपवादे वृद्धादिति ञ्यङि प्राते पुनरञ् विधीयते। साल्वेयः। गान्धारः। तस्य राजनि इत्येव, साल्वेयो राजा। गान्धारो राजा।
index: 4.1.169 sutra: साल्वेयगान्धारिभ्यां च
आभ्यामपत्येऽञ् । वृद्धेत्-<{SK1189}> इति ञ्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ॥
index: 4.1.169 sutra: साल्वेयगान्धारिभ्यां च
साल्वेयगान्धारिभ्यां च - साल्वेय । ननु साल्वेयगान्धारिशब्दावव्युत्पन्नौ देशक्षत्रियोभयवाचिनौ, ताभ्यां जनपदशब्दादिञि सिद्धे किमर्थमिदमित्यत आह — ञ्यङोऽपवाद इति ।