4-1-159 पुत्रान्तात् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् फिञ् उदीचां वृद्धात् अगोत्रात् कुक् च
'तस्य अपत्यम्' (इति) वृद्धात् पुत्रान्तात् उदीचाम् कुक् अन्यतरस्याम्
यस्य वृद्धसंज्ञकस्य शब्दस्य अन्ते 'पुत्र' इति वर्तते, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन (फिञ्-प्रत्यये कृते) कुक्-आगमः अपि विकल्पेन भवति ।
उदीचां वृद्धादिति वर्तते। पुत्रान्तमगोत्रमिति पूर्वेणैव प्रत्ययः सिद्धः, तस्मिन्ननेन कुगागमोऽन्यतरस्यां विधीयते। पुत्रान्तात् प्रातिपदिकाद् यः फिञ् प्रत्ययः, तस्मिन् परभूतेऽन्यतरस्यां कुगागमो भवति पुत्रान्तस्य। तेन त्रैरूप्यं संपद्यते। गार्गीपुत्रकायणिः, गार्गीपुत्रायणिः, गार्गीपुत्रिः। वात्सीपुत्रकायणिः, वात्सीपुत्रायणिः, वात्सीपुत्रिः॥
अस्माद्वा फिञ् सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रकायणिः- गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥
<<पुत्रान्तादन्यतरस्याम्>> - पुत्रान्तादन्यतरस्यां । स्पष्टम् ।
पूर्वेणाइव प्रत्ययः सिद्ध इति । तेनासाविह विधीयते । कथं तर्हि पञ्चम्या निर्देश इत्याह - पुत्रान्तादित्यादि ॥