वाकिनादीनां कुक् च

4-1-158 वाकिनादीनां कुक् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् फिञ् उदीचां वृद्धात् अगोत्रात्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) उदिचाम् वाकिनादीनाम् कुक् (आगमः) फिञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन वाकिनादिगणस्य शब्देभ्यः फिञ्-प्रत्ययः भवति तथा एतेषां शब्दानाम् 'कुक्' आगमः अपि जायते ।

Kashika

Up

वाकिन इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ् प्रत्ययो भवति, तत्सन्नियोगेन चैषां कुगागमः। यदिह वृद्धमगोत्रं शब्दरूपं तस्यागमार्थमेव ग्रहणम्, अन्येषामुभयार्थम्। वाकिनकायनिः। गारेधकायनिः। इञाद्यपवादो योगः। उदीचामित्यधिकारात् पक्षे तेऽपि भवन्ति। वाकिनिः। गारेधिः॥ वाकिन। गारेध। कार्कट्य। काक। लङ्का। चर्मिवर्मिणोर्नलोपश्च (ग०सू० ७८)॥

Siddhanta Kaumudi

Up

अपत्ये फिञ्वा स्यात् । वाकिनस्यापत्यं वाकिनकायनिः - वाकिनिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वाकिनादीनां कुक् च>> - वाकिनादीनां । शेषपूरणेन सूत्रं व्याचष्टे — अपत्ये फिञ्वेति । चकारादुदीचामिति फिञिति चानुवर्तते इति भावः । तथा च वाकिनादिभ्यः फिञ् वा स्यात्, प्रकृतीनां कुगागमश्चेति फलितम् ।

Padamanjari

Up

यदिह वृद्धगोत्रमिति । वाकिन-गारेध-काक -इत्येते त्रयः । वचनं वाकः सोऽस्यास्ति वाकिनः, बर्हिणवदुपपाद्यः । अगारे एधते गारेधः, पृषोदरादित्वादादिलोपः, शकन्ध्वादित्वात्पररूपम् । कायतेः काकः, ठन्येषामपिऽ इति कः । कर्कटस्यापत्यं कार्कट।ल्ः, गर्गादिः, कुर्वादिर्वा ।'लंघयतेर्लङ्का, अस्मादेव निपातनाद् घस्य कादेशः । वर्मचर्मशब्दौ व्रीह्यादी । इञाद्यपवाद इति । वर्मिचर्मिणोरण् प्राप्तः, लङ्काशब्दात्'द्व्यचः' इति ढक् प्राप्तः, यञन्ताद्'यञिञोश्च' इति फक्; सेषभ्य इञ् प्राप्तः,'वर्मिचर्मिणोर्नलोपश्च' इति कुकि कृते प्रातिपदिकस्यानकारान्तत्वान्नलोपो न प्राप्नोतीति विधीयते । यदि पुनरयं कुक् परादिः क्रियते, आयनादेशो न स्यात्; फस्यानादित्वात् । यदा न लिङ्गविशिष्टपरिभाषया वर्मिणी-चर्मिणीशब्दाभ्यां प्रत्ययो भवति, तदा'भस्या' ढेअ तद्धिते' इति पुंवद्भावो न स्यात् ॥