4-1-153 उदीचाम् इञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् सेनान्तलक्षणकारिभ्यः च
index: 4.1.153 sutra: उदीचामिञ्
'तस्य अपत्यम्' (इति) सेनान्त-लक्षण-कारिभ्यः उदीचाम् इञ्
index: 4.1.153 sutra: उदीचामिञ्
यस्य शब्दस्य अन्ते 'सेन' इति विद्यते तस्मात् शब्दात्, 'लक्षण'शब्दात् तथा 'कारिवाचि'शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन इञ्-प्रत्ययः भवति ।
index: 4.1.153 sutra: उदीचामिञ्
ण्ये प्राप्ते इञपरो विधीयते। सेनान्तलक्षणकारिभ्योऽपत्ये इञ् प्रत्ययो भवति उदीचां मतेन। कारिषेणिः। हारिषेणिः। लाक्षणिः। तान्तुवायिः। कौम्भकारिः। वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्धे आचार्यग्रहणं वैचित्र्यार्थम्। तक्षन्शब्दः शिवादिः, तेन अणा अयम् इञ् बाध्यते, न तु ण्यः। तक्ष्णोऽपत्यं ताक्ष्णः, ताक्षण्यः।
index: 4.1.153 sutra: उदीचामिञ्
हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात्फिञेव । नापितायनिः ।<!तक्ष्णोऽण उपसंख्यानम् !> (वार्तिकम्) ॥ षपूर्व-<{SK1160}> इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ॥
index: 4.1.153 sutra: उदीचामिञ्
उदीचामिञ् - उदीचामिञ् । सेनान्तलक्षणकारिभ्य इञ् स्यादुदीचां मते इत्यर्थः । परत्वात्फिञेवेति ।उदीचां वृद्धा॑दित्यनेनेति शेषः ।तक्ष्णोऽण उपसङ्ख्यानमिति ।उदीचांमते॑इति शेषः । ताक्ष्ण इति । अणि प्रकृतिभावान्न टिलोपः ।अल्लोपस्तुषपूर्वह॑न्निति वचनाद्भवति । पक्षे ताक्षण्य इति । प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः । 'ये चाऽभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः ।
index: 4.1.153 sutra: उदीचामिञ्
ताक्ष्ण इति ।'षपूर्वहन्धऋतराज्ञामणि' इत्यल्लोपः । ताक्षण्य इति ।'ये चाभावकर्मणोः' इति प्रकृतिभावः । इह'सेनान्तलक्षणकारिभ्यो वा' इति वक्तव्यम्, नार्थोऽनेनेञ्वचनेन, नापि शिवादिषु तक्षन्शब्दस्य पाठेन, ण्ये हि विकल्पिते यो यतः प्राप्नोति सततो भवतीति लक्ष्णः'प्राग्दीव्यतो' ण्ऽ, अन्येभ्यश्च ठत इञ्ऽ भविष्यति ? नैवं शक्यम्; एवं हि जातसेनादिभ्य ऋष्यादिलक्षणोऽण् प्राप्नोति ॥