कौसल्यकार्मार्याभ्यां च

4-1-155 कौशल्यकार्मार्याभ्यां च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् फिञ्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) कौसल्य-कार्मार्याभ्याम् फिञ्

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे कौसल्यशब्दात् कार्मार्यशब्दात् च फिञ्-प्रत्ययः भवति ।

Kashika

Up

कौसल्यकार्मार्यशब्दाभ्यामपत्ये फिञ् प्रत्ययो भवति। इञोऽपवादः। कौसल्यायनिः। कार्मार्यायणिः। परमप्रकृतेरेवायं प्रत्यय इष्यते — कोसलस्यापत्यं कर्मारस्यापत्यमिति। प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते। तथा च स्मृत्यन्तरम् — दगुकोसलकर्मारच्छागवृषाणां युट् वादिष्टस्येति। दागव्यायनिः। कौसल्यायनिः। कार्मार्यायणिः। छाग्यायनिः। वार्ष्यायणिः॥

Siddhanta Kaumudi

Up

अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः ।<!छागवृषयोरपि !> (वार्तिकम्) ॥ छाग्यायनिः । वार्ष्यायणिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कौसल्यकार्मार्याभ्यां च>> - कौसल्य । परमप्रकृतेरेवेति । कोसलकर्माराभ्यां फिञ्, तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ्, तस्य युट् चेति वक्तव्यमित्यर्थः ।

Padamanjari

Up

कोसलशब्दाद्'वृद्धेत्कोसलाजादाञ् ञ्यङ्' , कर्मारशब्दात्कारिलक्षणो ण्यः, एतयोरिह ग्रहणमिति शङ्कामपाकरोति - परमप्रकृतेरेवेति । कथं तर्हि विकृतं प्रकृतिरूपं श्रूयते ? तत्राह - प्रत्ययसंयोगेन त्विति । न चेयं स्वमनीषिकेत्याह - तथा चेति । युड्वादिष्टस्येति । पूर्वान्तकरणे दांगव्यायनिः, ओर्गुणो न स्यात्, अतः परादिकरणम् । आदिष्टेस्येति । कृतायनादेशस्येत्यर्थः । एतस्मिन्ननुच्यमानेऽनवकाशत्वाद्यौटि कृतेऽनादित्वादायनादेशो न स्यात् ॥