फाण्टाहृतिमिमताभ्यां णफिञौ

4-1-150 फाण्टाहृतिमिमताभ्यां णफिञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् बहुलम्

Sampurna sutra

Up

index: 4.1.150 sutra: फाण्टाहृतिमिमताभ्यां णफिञौ


'तस्य अपत्यम्' (इति) सौविरेषु फाण्टाहृति-मिमताभ्याम् ण-फिञौ

Neelesh Sanskrit Brief

Up

index: 4.1.150 sutra: फाण्टाहृतिमिमताभ्यां णफिञौ


सौवीरकुलवाचिभ्याम् 'फाण्टाह्रति'-तथा-'मिमत'-शब्दाभ्याम् तस्य अपत्यमस्मिन् अर्थे 'ण' तथा 'फिञ्' प्रत्ययौ भवतः ।

Kashika

Up

index: 4.1.150 sutra: फाण्टाहृतिमिमताभ्यां णफिञौ


सौवीरेषु इत्येव। कुत्सने इति निवृत्तम्। फाण्टाहृतिमिमतशब्दाभ्यां सौवीरविषयाभ्यामपत्ये णफिञौ प्रत्ययौ भवतः। फकोऽपवादः। अल्पाच्तरस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नं, तेन यथासङ्ख्यम् इह न भवतीति। फाण्टाहृतः, फाण्टाहृतायनिः। मैमतः, मैमतायनिः। सौवीरेषु इत्येव, फाण्टाहृतायनः। मैमतायनः। फाण्टाहृतेः यञिञोश्च 4.1.101 इति फक्। मिमतशब्दोऽपि नडादिषु पठ्यते।

Siddhanta Kaumudi

Up

index: 4.1.150 sutra: फाण्टाहृतिमिमताभ्यां णफिञौ


सौवीरेषु । नेह यथासंख्यम् । अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाहृतः - फाण्टाहृतायनिः । मैमतः - मैमतायनिः ॥

Balamanorama

Up

index: 4.1.150 sutra: फाण्टाहृतिमिमताभ्यां णफिञौ


फाण्टाहृतिमिमताभ्यां णफिञौ - फाण्टाह्मति ।सौवीरेष्विति । शेषपूरणमिदम् । सैवीरगोत्रादित्यर्थः । फाण्टाह्मतस्य गोत्रापत्यं फाण्टाह्मतिः, अत इञ् । तस्यापत्यं युवेति विग्रहः । मैमत इति । मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीरगोत्रादिति न संबध्यते, व्याख्यानाद्गोत्रत्वाऽभावाच्चेति भावः ।

Padamanjari

Up

index: 4.1.150 sutra: फाण्टाहृतिमिमताभ्यां णफिञौ


तेन यथासंख्यामिह न भवतीति । एवं च कृत्वा णस्य णित्करणमर्थवद्भवति, तद्धि मिमतशब्दे वृद्ध्यर्थम् । यथासंख्ये तु फाण्टाहृतेर्वृद्धत्वाणिणत्करणमनर्थकं स्यात् । इह तु फाण्टाहृताभार्य इति गार्गाभार्य इतिवत्पुंवद्भावप्रतिषेधादिकं द्रष्टव्यम् । यथा तु वार्तिकं तथा यथासंख्यमत्रेष्यते, यथाह -'फाण्टाहृतेर्णस्य णित्करणानर्वस्यं वृद्धत्वात्' ,'प्रातिपदिकस्य पुंवद्भावप्रतिषेधार्यं तु' , ठुक्तं वाऽ इति ॥