4-1-149 फेः छ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् कुत्सने ठक् सौवीरेषु बहुलम्
index: 4.1.149 sutra: फेश्छ च
'तस्य अपत्यम्' (इति) सौविरेषु कुत्सने फेः छः ठक् च
index: 4.1.149 sutra: फेश्छ च
सौवीरकुलवाचि यः फिञ्-प्रत्ययान्तशब्दः, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् 'छ' तथा 'ठक्' प्रत्ययौ भवतः ।
index: 4.1.149 sutra: फेश्छ च
कुत्सने इत्येव, सौवीरेषु इति च। फेः इति फिञो ग्रहणं न फिनः, वृद्धाधिकारात्। फिञन्तात् प्रातिपदिकात् सौवीरगोत्रादपत्ये छः प्रत्ययो भवति, चकाराट् ठक्, कुत्सने गम्यमाने। यमुन्दस्य अपत्यं, तिकादिभ्यः फिञ् 4.1.154। तस्यपत्यं यामुन्दायनीयः, यामुन्दायनिकः। कुत्सने इत्येव, यामुन्दायनिः। फिञन्तादौत्सर्गिकस्य अण आगतस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः 2.4.58 इति लुक्। सौवीरेसु इत्येव, तैकायनिः। यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः। सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित् समरेत्।
index: 4.1.149 sutra: फेश्छ च
फिञन्तासौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्यात् फिञ् । तस्यापत्यं यामुन्दायनीयः - यामुन्दायनीकः । कुत्सने किम् ? यामुन्दायनिः । औत्सर्गिकस्यणो ण्यक्षत्रिया-<{SK1276}> इति लुक् । सौवीर- इति किम् ? तैकायनिः ॥
index: 4.1.149 sutra: फेश्छ च
फेश्छ च - फेश्छ च ।छे॑ति लुप्तप्रथमाकम् । यमुन्दस्येति ष यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दायनिरिति । यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाऽभावाच्छठगभावेतस्यापत्य॑मित्यण् ।ण्यक्षत्रियार्षे॑ति तस्या लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावेतस्यापत्य॑मित्यण् । 'ण्यक्षत्रिये' ति तस्य लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थेऽसौवीरत्वाच्छठगभावेतस्यापत्य॑मित्यण् ।ण्यक्षत्रिये॑ति तस्य लुगिति भावः ।
index: 4.1.149 sutra: फेश्छ च
यमुन्दश्चेत्यादि । अत्र वार्ष्यायणीति शब्दरूपापेक्षाया नपुंसकनिर्देशः । फिञ इति । फिञन्ता इत्यर्थः । स्मृता इति । एते त्रयः फिञन्ताः प्रकृतयः स्मृता इत्यर्थः । सौवीरेषु च कुत्सायामिति । पुनश्चकारो वृतभङ्गभयान्न पठितः । बहुलग्रहणात्सिद्धोऽयमर्थः पूर्वं वृत्तिकृता दर्शितः, इदानीं तु श्लोकवार्तिककारेणेत्यपौनरुक्त्यम् । सुयामशब्दोऽपि तिकादिः । वृषस्यापत्यं वार्ष्यायणिः । अयमपि तिकादिरेव,'दगुकोसलकर्मारच्छागवृषाणां युड् वादिष्टस्य' इति वचनाद् आयनादेशे कृते युडागमः ॥