4-1-148 वृद्धात् ठक् सौवीरेषु बहुलम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् कुत्सने
'तस्य अपत्यम्' (इति) सौविरेषु कुत्सने वृद्धात् बहुलम् ठक्
सौवीरकुलवाचि यः वृद्धसंज्ञकः शब्दः, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् बहुलम् ठक्-प्रत्ययः भवति ।
कुत्सन इत्येव। सौवीरेष्विति प्रकृतिविशेषणम्। वृद्धात् सौवीरगोत्रादपत्ये बहुलं ठक् प्रत्ययो भवति कुत्सने गम्यमाने। भागवित्तेर्भागवित्तिकः। तार्णबिन्दवस्य तार्णबिन्दविकः। पक्षे यथाप्राप्तं फक्। भागवित्तायनः। पक्षे तार्णबिन्दविः। अकशापः शुभ्रादिः — आकशापेयः। तस्यापत्यम् आकशापेयिकः। पक्ष आकशापेयिः।
भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः।
तृतीयस्त्वाकशापेयो गोत्राट् ठग् बहुलं ततः॥
वृद्धग्रहणं स्त्रीनिवृत्त्यर्थम्। सौवीरेष्विति किम्? औपगविर्जाल्मः। कुत्सन इत्येव — भागवित्तायनो माणवकः। बहुलग्रहणमुपाधिवैचित्र्यार्थम्। गोत्रस्त्रिया इत्यारभ्य चत्वारो योगास्तेषु प्रथमः कुत्सन एव, अन्त्यः सौवीरगोत्र एव, मध्यमौ द्वयोरपि। तदेतद् बहुलग्रहणाल् लभ्यते॥
सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः - भागवित्तिकः । पक्षे फक् । भागवित्तायनः ॥
<<वृद्धाट्ठक् सौवीरेषु बहुलम्>> - वृद्धाट्ठक्सौ । पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते । सौवीरेष्विति प्रकृतिविशेषणं । तदाह — वृद्धादिति ।वृद्धिर्यस्याचामादि॑रिति वृद्धिसंज्ञकादित्यर्थः । ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरं गोत्रापत्यं — भागावित्तिः, तस्यापत्य युवेत्यर्थे ठकि इकादेसे भागवित्तिक॑ इति रूपमित्यर्थः । पक्षे फगिति । 'यञिञोश्चे' त्यनेने॑ति शेषः ।
अत्र'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इति वृद्धं गृह्यते, न त्वपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरपरिभाषितम् । उतरसूत्रे हि वक्ष्यति - फिञो ग्रहणं न फिनः, वृद्धाधिकारादिति । सौवीरेष्विति प्रकृतिविशेषणमिति ।'गोत्रस्त्रियाः' इत्यतो गोत्रग्रहणानुवृतेर्गोत्रप्रत्ययान्ता या प्रकृतिस्तस्या विशेषणमित्यर्थः । वृद्धात्सौवीरगोत्रादिति । इदमपि पारिभाषिकस्यैव वृद्धस्य ग्रहणे घटते, अन्यथा सौवीरेषु यद्वृद्धं तस्मादिति वक्तव्यम् । भागवितायन इति ।'यञिञोश्च' इति फक् । तृणबिन्दोरपत्यमिति औत्सर्गिकोऽण्तार्णबिन्दवः, ततष्ठक् । पूर्वठग्ग्रहणं णेन सम्बद्धम्, अतस्तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह ग्रहणम् । भागपूर्वपदौ वितिरिति । वित्यन्त इत्यर्थः । भागवितिशब्द इति यावत् । गोत्राट्ठग्बहुलं तत इति ।'गोत्रस्त्रियाः' इत्यतो गोत्रग्रहणानुवृत्या गोत्रवचनात्प्रातिपदिकाद्वहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवितिप्रभृतिभ्यस्त्रिभ्य एव भवति, नान्येभ्य इति परिगणनश्लोकार्थः । ननु गोत्रग्रहणमनुवर्तते, यच्च सौवीरसगोत्रवृत्तिप्रातिपदिकं तद्वृद्धमेव, तत्किमर्थं वृद्धग्रहणम् ? अत आह - वृद्धग्रहणं स्त्रीनिवृत्यर्थमिति । तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तदनुवृतौ स्त्रीग्रहणमप्यनुवर्तेत, वृद्धग्रहणसामर्थ्यातु गोत्रग्रहणमेवानुवर्तते, न स्त्रीग्रहणमिति व्याचक्षते । अपत्यमन्तर्हितं वृद्धमित्यस्य तु वृद्धस्य ग्रहणेऽसमञ्जसोऽयं ग्रन्थः स्यात् । औपगविरिति । ननु च परिगणनादेवात्र न भविष्यति ? तन्न; न हि सूत्रकारोऽर्वाचीनपरिगणनाश्रयेणातिप्रसङ्गनिवारणं मन्यते, वाग्रहण एव कर्तव्ये यद्वहुलग्रहणं कृतं तस्य प्रयोजनमाह - बहुलग्रहणमित्यादि । वैचित्र्यमेव दर्शयति - गोत्रस्त्रिया इत्यारभ्येति । तत्रान्त्यः सौवीरगोत्र एवेति । अयमेवार्थो यत्नसाध्यः ॥